________________
मेघदूतम्
भवति । विश्लेषोक्तिः । तां कामयेरिति तात्पर्यम् । किं लक्षणायाः तस्याः १ विचिक्षोभेन 217[क]ल्लोल कम्पनेन स्तनिता शब्दायमाना या विहङ्गश्रेणिः विहङ्गमपक्तिः । सैव काञ्चीगुणो मेखलागुणो यस्याः सा, तस्याः । तस्याः किं कुर्वत्याः ? पाखा(षा)णादो(दौ) स्खलितेन सुभगं यथा स्यादेवं संसर्पन्त्याः, गच्छन्त्याः । पुनः किं लक्षणायाः १ दर्शितावर्तनाभेः, दर्शिता आवर्त एव नाभिर्यया सा तस्याः । कथमाहवानाभावेऽनुरागिता योग्येत्याह । हि स्फुटं निश्चितम । स्त्रीणां प्रियेषु दयितेषु, विभ्रमो विलासः, आद्य प्रथम, प्रणयवचनं स्नेहवाक्यम् ।218 अथ नारीसाधर्म्य. माह । अन्याऽपि कामिनी शब्दावमानरस(श)ना219 सविलासा गच्छन्ती हावभावान्विता पत्याभि दर्शयति220 ॥२९॥
221वेणीभूतप्रतनुसलिलां तामतीतस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपणे: । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३०॥
हे सुभग ! येन विधिना, येनोपायेन, सा सिन्धुर्नदो कार्य कृशतां त्यजति, स विधिस्त्वयैव उत्पाद्यो र चनीयः । तत्र त्वं वर्षेरिति । सिन्धुः किं कुर्वती विरहावस्थायाः(स्थया:)222 ? ते तव, सौभाग्य व्यञ्जयन्ती प्रकटयन्ती । कीरशस्य ? तां नदीमतीतस्य । कीदृशी सा ? वेणीभूतप्रतनु सलिला, त्वद्विरहेण वेणीभूतं223 प्रतनुस्वात्सलिलं यस्याः सा । पुनः कीदृशी] १ सिन्धुः तटमहतरुभ्यो भ्रसी(शी नि भ्रष्टानि तटमहतरुभ्र सि(शि)भिः, तै: जीणपणे : जर्जरक्सिलयैः पाण्डुच्छाया । पत्युवियोगेऽन्यापि नारी निजदयितस भाग्यं हदि धरन्ती कृशा पाण्डुरा वा224 भवति ॥३०॥
225प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धापूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैतमिव दिवः कान्तिमत्खण्डमेकम् ॥३१॥
ततः पश्चात् पूर्वोदि दि)ष्टो टां)226 प्राकथितां विशालामुज्जयिनी पुरीं अनुसर गच्छ । किं कृत्वा ? अवन्तीन् देशान् प्राप्य । कीदृशान् ? उदयन कथासु कोविदा विचक्षणाः श्रीमद्वृद्धा (ग्रामवृद्धा)227 येषु ते तान् । कीदृशी विशालां ? श्रिया रुद्ध्याऽपि विशाला अनल्पा, श्रीविशाला, ताम् । उत्प्रेक्ष्यते । दिव(व:)228 स्वगस्य कान्ति सहित एकमद्वितीयं खण्डमिव 1229 स्वर्ग(ग)कदेशस्य । तत्र कथमागत इत्याह । क्व सति गां गतानां स्वर्गिणां देवानाम् । सुचरितफले उपभुक्वा230 स्वल्पीभूते अल्पीभूते सति कीदृशं खण्ड १ उत्प्रेक्ष्यते-तेषां देवतानां शेषै: सच्चरितः पुण्यैह तमिव भुवमानीतमिव ।।३१।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org