Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 427
________________ महाकवि कालिदास-विरचित ___ हे जीमूत ! पुनम द्वचनात्तामिति ब्रूया : । हे प्रिये ! मे मम शापान्तो भविता भविष्यति । वर्षस्य परिपूर्णत्वात् । 714आषाढशुम्लै कादशीदिनमारभ्य मासानां चतुष्टय गमय । यथा कथाचिदतिवाहय । ततः पश्चात्सयोगादनन्तर आवाभ्यां विरहगुणित विरहावस्थायां गुणनिकायो(य)715 संकलित त, त वचनातीत', आत्माभिलाष आत्मनो वाच्छित, क्षिक्ष)पासु रात्रिषु निबेश्याव. । निर्वाहेषु उपभोक्ष्यावहे । किं लक्षाक्ष्या सु716 क्षि(क्ष)पासु ? परिणतशरच्चन्द्रिकासु । परिणता परिपक्वा शररुचन्द्रिका शरत्कालचन्द्रजो ज्योत्स्ना यासु तास्तासु ॥११७॥ अधुना गुह्यकः स्वकीयं प्रकरमपि(भि)717 ज्ञानमाहभूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तोस कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥२१॥ हे पतिव्रते ! असौ 718 तव भर्ता एतदुक्ता(वत्वा) भूयः पुनरपि त्वामित्याह । हे प्रिये ! अहं शयने ज(त)ल्पे त्वामालिङ्गत्य सुप्तः । ततस्त्वं मे मम कण्ठलग्ना पुरा पूर्व निद्रा गत्वा पश्चात् किमपि स्वल्पमात्र सस्वरं सशब्दं रुदन्ती सती विप्रबुद्धा विनिद्रा जाता । ततो असकृद्धारंवार गेदन (न)हेतु(तु) मे पृच्छत त्वया सान्तहसिं गूढ़ हसित्वा चेति उक्त इति । किम् ? हे कितव, धूर्त, स्वप्ने कामपि वनिता(तां) 719 नारी (रों) रमयत्(न्) भुज्जन्मया त्वं दृष्टः । तत ईविशादहं रुदनं कुर्वे ॥११८॥ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कोलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥११९॥ हे असितनयने! नीलोत्पल नेगे, मयि भर्तरि विषये कोलीनात् लोकप्रवादात् अविश्वासिनी निष्प्रत्यया मा भूः । किं कृत्वा । एतस्मात् पूर्वोक्तात् अभिज्ञानदानात् मां कुशलिन समाधियुक्तं विदित्वा ज्ञात्वा । तदेव कोलोनमाह । जनाः किमपि कुतोऽपि कारणेन, विरहे वियोगे स्नेहात(न) ध्वंसिनस्त्वनुभव (वं)तः आह कथयन्ति स्म । यतः स्नेहः प्रवासाश्रयान्नस्य(श्यति । अयुक्तमेतत् । ही(हि) यस्मात्कारणात् ते स्नेहाः अभोगादनुपभोगान् इष्टे वस्तुनि वाञ्च्छितेऽथे उपचितरसासन्तः प्रमराशीभवन्ति प्रीतिमता(या) 720 सजायन्ते ।।११।। कश्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवता धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जल याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ।।१२०।। हे सौम्याभीष्टदर्शन ! कश्चिदीष्टवरप्रश्ने मे मम इदं एतत बन्धुकृत्या(त्यं) त्वया व्यवस्थासि(पि)721 तसा(मा)नीतम् अस्मिन्नर्थे भवता 722 भवितव्यम् । खलु निश्चितम् । भवतस्तव धीरतां धीरत्वं प्रत्याख्यातु वक्तु न त्क(कल्पयामि न शक्नोमि, स्वं याचितः सन् निःशब्दोऽपि चातकेभ्यो बप्पीह केभ्यो जलं प्रदित्स(ष्य)सि यच्छसि । युक्तो[s]यमर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502