Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मेघदूतम्
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरसृतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११४ ॥
हे गुणवति ! ते प्रसिद्धास्तुषाराद्रिवाता हिमाचलपवना इति हेतोर्मया आलिङ्गयन्ते आयते इति किं यदि चेत् । किलेति सत्ये । एभिः वातैः सहवासात् पूर्वं प्रथमं तवाङ्ग स्वदीयं शरीर ं स्पृशं ष्टं, 705 स्पर्शित भवेत् । ते के ये वाता दक्षिणेन प्रवृत्ताः । अस्यां मामकीनाय दिशि वातुं प्रसु (स्तु)ताः । किं कृत्वा ? सद्यस्तत्काल' देवदारुद्रुमाणां चीडवृक्षाणाम् । किश( स ) लयपुटान् भित्वा विकाश ( स ) यित्वा । कीदृशा बाता ? तत् क्षीर अ ( ) तिसुरभयः । तत् क्षीर (स्त्र ) त्या सुरभयः सुगन्धास्तत्क्षी {१} [रस्रुतिसुरभयः ] ॥ ११४ ॥ संक्षिप्त क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११५ ॥
चलनेत्र ! 706 हे चन्चलनयने ! दीर्घयामा दीर्घ प्रहरा त्रियामा निशा क्षणमिव निमेष व कथं []नोपायेन 707 संक्षिप्यन्ते गच्छेयुः । अन्यच्च सर्ववस्थासु सर्वादशासु ग्रीष्ममध्याह्नादिष्वपि कालेषु अहरपि दे (दि) सोऽपि मन्दमन्दातपं अतिकोमलं कथ स्याद्भवेत् । हे 708 चञ्चनयते, इत्थं पूर्वोक्तप्रकारेण मे मम चेतश्चित्तं त्वद्वियोगव्यथाभिः त्वद्वियोगवेदनाभिः दुर्लभप्रार्थ कृतम् । दुर्लभाः दुष्प्राप्याः प्रार्थना यस्य तत् । किं लक्षणाभिः ? स्वद्वियोगव्यथाभिः गाढोष्माभिः 709 [ तीव्र संतापाभिः ] । किं लक्षण ं चेतः १ अशरण 710 शरणवर्जितम् । स्वकीयां दशामुक्त्वाऽधुना कर्तव्यतां प्राह ॥ ११५ ॥
इत्यात्मानं बहु विगणयन्नात्मनैवावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीच्छत्युपरि च दशा चक्रनेमिक्रमेण | | ११६ ॥
हे कल्याणि ! इति पूर्वोक्तप्रकारेण आत्मान स्वं बहुविगणयन् अत्यर्थं विचारयन् । आत्मानैवात्मानं अवलम्बे, धीरत्वेन धारयामि । तत् तस्मात्कारणात् हे कल्याणि ! त्वमपि सुतरामत्यर्थ कातरत्वं अधीर मा गम. मा यासीः । युक्तो [s] यमर्थ: । कस्य जीवस्य अत्यन्तमत्यर्थम् 711 स ( सुखं सौख्यम् । उपनतं घटितं वा अथवा कस्य मनुष्यस्य 712 एकान्तत: सर्वप्रकारेण दुःख कष्ट उपनत जातम् | 713शुभाशुभा दशा चक्रनेमिक्रमेण रथाङ्गधारावत् कदाचिन्नीचैर्गच्छति कदाचिदुपरि गच्छति । रथाङ्गधारापि भ्रमन्ती क्रमेणा{}ध उपरि याति ||११६ ।।
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाव निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥११७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502