Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 428
________________ मेघदूतम् यदि यस्मात्कारणात् सतां गरिष्यनां प्रणयेषु स्नेहलेषु इप्सितार्थक्रियैव प्रत्युक्तं प्रतिवचनम् | इप्सिता वाञ्छिता याऽर्थक्रिया सैव । महान्तो हि कर्तव्येणैव कार्य ज्ञापयन्ति न तु वचसा ॥१२०॥ आश्वास्यैव प्रथमविरोदयशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसव शिथिलं जीवित धारयेथाः || १२१ ||723 हे जलद मेतां प्रियां ते तव सखीं एवं अमुना प्रकारेण तद्वचोभिराश्वास्य तस्याः वचः तद्वचः तैः तद्वचोभिः तत्सन्देशेन ममापि जीवितं धारयेथाः । कथंभूतः स्व १ शैलादाशु शीघ्र निवृत्तः सन् । कथंभूतां ते तव तां सखीं ? प्रथमविरहा दुर्ग ( ग्र) शोकाम् । कथंभूतात् शैलात् ? त्रिनयनवृषोत्खा - तांत) कूत् । क्षोदितशिखरात् । कथंभूतैः तद्वचोभिः १ साभिज्ञानप्रहितकुशलैः, प्रस्थापितकुशलैः । कथंभूतं जीवितम् ? प्रातः प्रभातकाले कुन्दप्रसवशिथिलम् । कुन्दवृक्ष्यः (क्षस्य ) पुष्पवत् शिथिलम् ॥ १२१ ॥ एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मने। मे सर्दा वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान्देशान्जलद विचर प्रावृषा संभृतश्री र्मा भूदेव क्षणमपि च ते विद्युता विप्रयोगः ॥ १२२|| हे जलद ! सौहार्दाद्वा मित्रत्वात् वा अथवा अय विधुरो विरहपीडित इति हेतोर्मयि विषये अमु (नु)को (क्रो) 724 शबुद्ध्य | ( ध्या) 725 उपकारधिया मे मम एतत्पूर्वोक्त सन्देशप्रापणं प्रियं कृत्वा विधाय इष्टान्नसिमवान् ( इष्टान् देशान् ) विषयान् देशान् विचर गच्छ । स्व १ प्रावृषा वर्षाकालेन सम्भृतः (त) श्री. प्रावृद (दु) पार्जितशरीरोन्नति : 726 | हे जलद ! पुनस्तव भवतो मे मम विद्युत्तडितप्रियया स्नेह (?) क्षणमपि विप्रयोगः वियोगो मा भूयात् । कीदृशस्य मे ? अनुचित प्रार्थना वर्त्म (र्ति) नः । अनुचिताऽयोग्या या प्रार्थना याचा तया । वाक्यैः ममापि कुन्दप्रसवशिथिल कुन्दकुश (सु)मा (म ) [ शिथिलम् ] 727 प्रस्थापितकुशलैः दृष्ट 728 जीवितं धारयेथाः । किं कृत्वा ? मम एनां 729 सखीं भार्यामाश्वास्य धारयित्वा । कीदृशीं एनां ? प्रथमविरहोदयशोकां प्रथमविरहे उदग्र उत्कटः शौका (कः) यस्या सा ताम् । कीदृशस्त्वम् ? आत्मत्वेलात् ( अस्माच्छैलात् ) 730 आ (अ) 731 मुष्मानु (न्न) गात् निवृत्तो व्याघुरितः । कीदृशात् शैलात् ? त्रिनयनवृषोत्खातकूयात् । त्रिनयनवृषेण 732 उत्खातं कूटं यस्य स तस्मात् । कीदृशैस्तद्वचोभिः साभिज्ञानप्रहित: (त) कुशलैः । साभिज्ञानेन प्रहितानि मह्यं प्रेषितानि कुशलानि येषु तानि तेषु ॥ १२२ ॥ Jain Education International ४७ " सन्देश' जलधरवरो दिव्यवाचाऽऽचचक्षे प्राणास्तस्या जनहितरतो रक्षितु यक्षवध्वाः । यक्षेणैव प्रकटितपथो मूलतोऽनुक्रमेण गत्वा दृष्ट्वा धनपतिपुरी तां च वातायनस्थाम् ॥ १२३॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502