Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 393
________________ महाकवि कालिदास - विरचितं विकसितस्य नीपस्य रोमशता[नि ] 195 सम्पद्यन्ते । यो गिरिः नागराणां नागरिकलोकानां उद्दामानि प्रौढानि यौवनानि प्रथयति प्रख्यापयति । कैः शिलावेश्मि ( श्म) भि : 196 । कीदृशैः ? पण्यस्त्रीरतिपरिमलोद्गारिभिः । पण्यस्त्री [रति ] परिमलं 197 वेश्या सुरतां (ता) मोदं 198 उद्गिरिति (रन्ति) 199 यानि तानि तैः ॥ २६॥ १२ विश्रान्तः सन्वज नगनदीनीरजातानि सिञ्चन्नुद्यानानां नवजलकणैयूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ||२७|| 200 'वननदीतीरजातानि' इति टीकायां दृश्यते । हे सखे ! तत्र गिरौ विश्रान्तस्सन्नग्रतो व्रज याहि 201 लम् कुर्वन् ? उद्यानानामुग्वनानां यूथिका जालकानि यूथिका कोरकान् । सिन्चन् उक्षन् । कीदृशानि तानि ? वननदीतीरजानाति (तानि) 202 काननसरित्तोसन्नानि । कीदृशस्त्वं ? छायादानात् पुष्पलावीमुखानां क्षणपरिचितः । पुष्पाणि लुनन्तीति पुष्पलान्यस्तासां मुखानि । तेषां किंलक्षणानां मुखानां203? क्लान्तानि लानानि कर्णोत्पलानि येषां तानि तेषाम् । कया ? गण्डस्वेदापनयन रुजा गण्डयोर्य (र्यः ) 204 स्वेदो धर्मस्तस्यापनया (य, नेनोपुंससेन या रुग् तथा ||२७|| वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितच कितैस्तत्र पौराङ्गनानां लोला पार्यदि न रमसे लोचनैर्वञ्चितोऽसि ||२८|| 205 , वयस्य ! हे मेघ ! हे मित्र ! 206 यद्यपि भवतस्तव उत्तरायां कौबेरों प्रस्थितस्य, वक्रः कुटिलः, पन्थाः मार्गो भवति तथाऽपि उज्जयिन्यां नगर्या (य 207 सौधोत्सङ्ग-प्रणयविमुखो208 मा स्म भूरवश्यं तां गच्छेर्याया: 209 | यदि चेत् तत्र उज्जयिन्यां पौराङ्गनानां नागरिकरमणीनां लोचनैर्न रमसे210 न क्रीडसि, तदा वञ्चितो [S]सि । अवलोकनाभावात् । कीदृशैः लोचनैः? विद्युद्दामा(म)स्फुरितच कितैः, विद्युद्दाम्नः स्फुरितेन चकितानि [त्रस्तानि ] 211 नेत्राणि तैः । पुनः कीदृशैः ? लोल (ला) पाङ्गै: लोलाश्चन्चला अपाङ्गा नेत्रप्रान्तो (न्ताः ) येषां तानि तैः ॥२८॥ , Jain Education International चिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य श्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ||२९|| 213 प्रयोद ! 214 नैवं (निवि ) न्ध्यायाः नद्याः पथि प्रवाहे, सति ( न्नि) 215 पत्याश्लिष्य रसाभ्यन्तरो भव, पानीयगर्भः स्यात् (स्याः) । त्वं पानीयं पिबेरित्यर्थः । रसाभ्यन्तरः श्रृङ्गाररसवासिते (तो) 216 For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502