Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 404
________________ २३ शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेया ताम् । किं कृत्वा ? तस्या एव गङ्गाया प्रभवं उत्पत्तिस्थानं 376 अचल हिमवन्तं प्राप्याऽऽसाद्य । कीदृशमचल ? आशी(सी)नानामुपविष्टाना कस्तुरी(रि) कामृगाणां3 77 नाभिगन्धैर्नाभिपरिमलैः सुरभितशील सुरभिता सुगन्धीकृता शिला यस्य स तम् । पुनः किम्भू. तमचलं ? तुषारहिमगौर(र) धवलम् । कीदृशे श्रृङगेऽध्वश्रम378-विनयने मार्गखेदस्फे(स्फो)टके ॥५५॥ 379तं चेद्रायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्र रापन्नातिप्रशमितफलाः सम्पदो झुत्तमानाम् ॥५६॥ [टीकायां प्रगमनफलोः इति पाठः] चेत् यदि तं हिमवन्त(तः) दवाग्निः दावानल: बाधेत3 80 [दहेत]तदाऽऽत्यर्थ, एनं381 गिरि(रिं) वारिधारासहस्रः शमयितु निर्वापयितु अर्हसि योग्यो भवसि । क्व सति ? वायौ पवने सति वाते सति । कीदृशो दावाग्निः सरलस्कन्धसंघहजन्मा सरलस्क धादेव दारवो वृक्षास्तेषां संघहनात: जिन्न]3 8 2 यस्य सः। पुनः किम्भूतो दावाग्नि: ? उल्काक्षपितचमरीबालभार उल्काभिरलातज्वालाभिः]3 8 3 'क्षपितो दग्धचमरीणां बालभारो येन सः । युक्तोऽयमर्थः । हि यस्मात् कारणात उत्तमानां प(ग)384रिष्ठानां सम्पद: समृद्धयः आपन्नातिप्रस(श)मनफलाः आपन्नातिप्रशमनमेव फलं येषां ते ॥५६॥ 385ये त्वां मुक्तध्वनिमसहनाः स्वाङ्गभङ्गाय तस्मिन्दपोत्सेकादुपरि शरभा ल घयिष्यन्त्यलध्यम् । तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ।।५७।। ['ये संरभोत्पतनरभसा' इति टीकायो दश्यते ] टापदा दपो(पो)त्स(स)कादहका हे जलद । तस्मिा पर्वते ये सरभाः अष्टापदा दपो(पोत्स(त्से)कादहकारात वां शटायमानं असहमानाः संतः लवयिष्यन्ति । कस्मै ? स्वाङ्गभङ्गाय तान् सरभान् [लयेयुः ।]386 [तु]म(मुलकारकावृष्टिहासावकीर्णान् , तुमुला प्रबला या कारकावृष्टिः सैव हासो हास्यं, तेनावकीर्णा अवलेहिता (अवहेलिता)387स्ता[न]नुकुर्वीथाः कुर्याः । किंभूत त्वां ? अलङध्य', युक्तो[s]यमर्थः । के निष्फलारम्भयत्नाः परिभवपदं कष्टस्थान' न स्युः । [अपि तु स्युः] 1389 निष्फलो निरर्थकः आरम्भः यत्नो येषां ते ॥५७।। तत्र व्यक्तं दृषदि चरणन्यासमधेन्दुमौलेः शश्वत्सिद्वरुपचितबलिं भक्तिनम्रः परीयाः । यस्मिन्वृष्टे करणविगमादूरमुख़्तपापाः संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ।।५८।।389 [ 'उपहितबलिं' इति, ऊर्ध्वमुद्धत इति च टीकायां दृश्यते ।] Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502