Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 416
________________ मेघदूतम् वामपादाभिलाषो । तस्य विकाश(सः) पादप्रहारानुग्रणे हे)ग स्यात् । अहमपि सापराधः सन् तदीयचरणप्रसादं वाच्छामि । अन्यो(s)पि बकुलोऽस्याः मकान्तायाः वदनमदिरां563दोहदन्छमना दोहदवाञ्च्छया कोक्षति वाच्छति । रमणीवदनासवसेवनेन 564 तस्य विकाशा(सा)त्565 । कीदृशो रक्ताशोकः? चलकिसलयश्चञ्चलपल्लव: । कीदृशः केश(स)र १ कान्तो मनोहरः॥८४|| 566तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि. मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः सिञ्जावलयसुभगैर्नतितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥८५॥ हे मित्र ! तन्मध्ये तयोरशोककेश(स)रयोमध्ये क्रीडाबहिणः काञ्चनी वासयष्टिः स्फटिकफलका स्फुस्फटिकस्य फलि(ल)कः पीठं यस्याः सा । पुनः कीदृशी ? मूलेऽधःप्रदेश(शे)567 मणिभिर्बद्धा खचिताः(ता) । कीदृशैः मणिभिः? अनतिप्रौढवंशप्रकाशैः । अनतिप्रौटा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाश: कान्तिर्येषा मरकतमणीना ते, तैः। मरकतमणव्यो(यो)ऽपि568वंशवर्णा स्युः। हे सखे ! यां यष्टि वो युष्माकं सुहृन्मित्रम् । ना(नी)लकण्ठो569 मयुरो दिवसविगमे सूर्यास्तसमये अध्यास्ते सेवते । कीदृशो नीलकण्ठः ? मम {म} कान्तया तालैः करवादनैः नर्तितो नृत्यं कारितः । कीदृशै{}स्तालै: ? सिम्बद्वलयसुभगैः सिया(जा)570 {नक} कटकमनोहरैः ॥८५॥ 571 एभिः साधो मनसि निहितैलक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं । सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥८६॥ हे साधो ! रे(ए)भि:572 पूर्वोक्तैर्ल क्षणचिह्न( )मनसि निहितैश्चित्तस्थापित: मद्भवन. (न)573 ममागारं लक्षयेथा: जानीथास्त्वम् । किं कृत्वा १ च पुनरोपान्ते लिखितवपुखो(षौ)574 शङ्खपद्मौ निधी दृष्ट्वा विलोक्य लक्षे(क्ष)[ये]था: । कीदृशं :} भवन ? अधुना नूनं निश्चित मद्वियोगेन मम विरहेण क्षामच्छायमल्पशोभम् । अमुमेवार्था (थ)575 दृष्टान्तेन दृढयति । कविः खलु निश्चयेन कमल सूर्यविकाशि(सि) पद्म सूर्या )पाये दिनकरास्तसमये स्व(स्वा).576 मात्मीय(यां)577 सलि(अभि)ख्यां578 शोभा न पुष्यति न पुष्णाति ॥८६॥ 579गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । . अहस्यन्तभवनपतितां कतु मल्पाल्पभासं खयोतालोविलसितनिभां वियुदुन्मेषदृष्टिम् ॥८७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502