Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 410
________________ मेघदूतम् चूडापाशे नवकुरबकं चारु कर्णे शिरीष सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥६९।। ('आननश्रीः' इति टीकायों दृश्यते । ) हे मेघ ! [यत्र]46 2 पूर्या वधूना युवतीनां, हस्ते करे, लीलाकमल 46 3 क्रीडानलिन, विद्यते । यत्र वधूनां अलक बालकुन्दानुविद्ध च464 वर्तते । बालकुन्दैः कुन्द सुकुसुमैरनुविद्ध मिश्रितम् । यत्र वधनामाननश्रीः मुखशोभा, रे(लो)ध्रप्रस्वर जसा रो(लो) पुष्परागेण , पाण्डुतां गौरतां, नीता लम्भिता । यत्र वधूनां चडाप(पा)शे मुकुटे नवकुरु(र)बक'465 अभिनवकुसुम {तत्र} वर्तते । यत्र वधूनां कणे चारु रम्यं शिरीष शिरीषकुसुम विद्यते च । पुनर्यत्र वधूनां समीपे(सीमन्ते)466 त्वदुपगम(म)[ज]467 त्वदुपगमाज्जातं त्वदुपगमजं प्रावृषेण्यं नीपपुष्पं विद्यते। तत्प्रावृषि सम्पद्यते एतेन रामाणां नागरिकत्वमुररीकृत, सारभूतं कनकाल कारनि {ग्र रासने468 ॥६९।। 469 आनन्दोत्थं नयनसलिलं यत्र नान्यनिमित्तैर्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिविरोशाना न खलु च वया यौवनादन्यदस्ति ।।७०॥ हे सखे ! यत्र ममालकायां नराणां आनन्दादुत्थान यस्य तदानन्दोत्थं नयन सलिल' नेत्ररोदनं वियते । अन्यैरपि निमिती: शोकादिभिः नयनसलिल' न यत्र । कुसुमस(श)रजात् कुसुमस- (श)राज्जातः कुसुमस(श)रजः तस्मात् इष्टसंयोगसाध्यः । इष्टसंयोगेनाभीष्टजनमेलापकेन साध्यः तापो वर्तते । अन्यस्तापो न यत्र । प्रणयकलहात स्नेहकन्दलादन्यत्र विप्रयोगोपपत्तिः वियोग प्राति(प्ति)न यत्र । च पुनः, खलु निश्चितम् , वित्तेशानां पुरुषाणां यौवनादन्यदपर क्यो नास्ति ॥७०॥ 470यस्या यक्षाः सितमणिमयान्येत्य हर्यस्थलानि ज्योतिश्छायाकुसुमरचिताभ्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रस्त त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥७॥ ( • 'कुसुमरचना' इति टोकायां दृश्यते । ) यस्यामल (ल)कायां यक्षा पुण्यजनेश्वरा उत्तमस्त्रीसहायः(या:) प्रधानस्त्रीसहिताः, सन्तः पुष्करेषु वाद्य (दि)तेषु, शनकैर्मन्द [मन्दं], आहतेषु वाद्यमानेषु सत्सु, रतिफल कामसुखदायककल्पवृक्षपसूतं सुरद्रुमसमुत्पन्न, मध्वास सेवन्ते पिबन्ति । किं कृत्वा ? हय स्था(स्थ)लानि सेवितत्वान्येत्यागत्य । किम्भूतानि हाणि ? श(सि)तमणिमयानि शि(सितमणिनि(भिः) स्फाटिकरस्नैः प्रवृस्तानि निर्मितानि, श(सितमणिमयानि। पुनः किं लक्षणानि ? ज्योतिच्छायानक्षत्रश्रेणिबिम्बान्येव(व) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502