________________
१०
महाकवि कालिदास-विरचितं
नीलपिङ्ग नोपं कदम्ब कुसुतं दृष्ट्वा समालोक्य तद्विना सारङ्गाश्चातकास्तव मार्ग सूचयिष्यन्ति । च पुनः सारं सलिलं गच्छन्ति , सारङ्गा गजास्ते मार्ग सूचयति(न्ति) । किं कृत्वा ज्ञास्यन्ते ? लक्षणान्याह । कच्छं163 कच्छमनुलक्ष्यीकृत्यानुकच्छमनुनीर प्रथममुकुला उत्पन्नाद्यकोरका: कन्दली164 वनस्पतिविशेषात् दृष्ट्वा ते तवा65 मार्ग सूचयिष्यन्ति अयमर्थो न सुन्दरतरः । यतस्ते गजाः पीवर काया कर्दमाकुलायां सि(शि)लायां, गन्तुमपि न पारयन्त्यतो जीमूतावतारसमया(य) स्तेषां166 न सुखदः । च पुनः सार सत्वर [शीघ्र ]167 गच्छन्तीति सारङ्गा हरिणास्ते पन्थानं मार्ग' सूचयिष्यन्ति । किं कृत्वा? दग्धारण्येषु ग्रीष्मादावप्लुष्ट काननेषु । उाः पृथिया: । अधिकसुरभि गन्धमाघ्राय सुधित्वा168 अधिकश्चासौ सुरभि अधिकसुरभिस्तम् । जलकणपतनात्तत्र सौरभ्याविर्भावः । अयमर्थोऽपि विपश्चितां चेतसि न चमत्करोति । यतो हरिणानां मेघेन सह मैत्रीभावो न । अतश्चातका एव सर्वान् भावान् विदित्वा ते मार्गसूचयिष्यन्ति । कीदृशस्य ते ? जललवमुचः जललवान् मुञ्चतीति जललवमुक्त स्य ॥२१॥
अम्भोबिन्दुग्रहणरभसान् चातकान्वीक्ष्यमाणाः श्रेणीभूताः परिगणनया निर्दिशन्ता बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥२२॥169
सिद्धा गगनचर]170देवविशेषाः। प्रियसहचरी सम्भ्रमालिङ्गय (ङ्गितानि । सोत्कण्ठाईयुक्तायनि [उत्कण्ठायुक्तानि]171 मानयिष्यन्ति अङ्गीकरिष्यन्ति । किं कृत्वा ? स्तनितसमये गर्जारवसमये172 त्वां भवन्तं, आसाद्य प्राप्य । सिद्धाः किं कुर्वाणः १ अम्भोबिन्दुग्रहणरभसान् चातकान् वीक्ष्यमाणाः। अम्भोबिन्दुनां ग्रहणे रभसा [व्यग्रा]173 उत्ताला अम्भोबिन्दुग्रहणरभसास्तान् । सिद्धाः [पुनः कथंभूता.174] , किं कुर्वन्तः ? बाका बिसकण्टिका निर्दिशन्तो दर्शयन्तः । कया ? परिगणनया । परिसामस्त्येन गणना, तया, एक-द्वि-त्रि-संख्यया । कीदृशा बलाका ? श्रेणीभूताः [175अश्रेणयः श्रेणयो जाताः इति श्रेणीभूताः] पङक्तिबद्धाः ॥२२॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लाराङ्गः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २३
हे सखे ! मत्प्रियार्थमस्मद्दयितार्थ, द्रुतमपि शीघ्रमपि176 जिगमिषोस्तव पर्वते पर्वते कालक्षेपं विलम्ब उत्पश्यामि अवलोकयामि । कीदृशे पर्वते पर्वते? ककुभसुरभौ अर्जुनवृक्षसुगन्धि[नि]1771 भवान् त्वम् । कथमपि केनाप्युपायेन । आशुः शीघ्र, गन्तु व्यवसे(स्ये)त् उपायं कुर्यात् । कीदृशो भवान् ? 178शुक्लापागैर्मयूरैः प्रत्युद्यातः प्रत्युद्गतः । किं कृत्वा? केका मयूरवाणी । 179स्वागतीकृत्य वचनैः कुशलप्रश्नं कृत्वा । कीदृशैस्तैः ? सजलनयनै नेत्रोदकयुक्तैः ॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org