________________
मेघदूतम्
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः नींडारम्भगृहबलिभुजामाकुलग्रामचैत्या: । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयादिनस्थायिहंसा दशार्णाः ॥२४॥180
हे जीमूत ! दशार्णा दशाणदेशाः, कतिपयदिनस्थायिहंसाः संपत्स्यन्ते । कतिपयदिनानि स्थायिनो हंसा येषु ते । जलदर्शने मानसे(सं) गमनात् । क्व सति? त्वयि181 भवति, आसन्ने निकटवर्तिनि सति {सति} । कीदृशाः दशार्णाः ? शु(सू )चिभिन्नर्विकस्वरैः केतकैः केतककुसुमैः, पाण्डुच्छायोपवनवृतयः पाण्डुच्छाया गौरकान्तिः उपवनवृत्तिरुद्यान कण्ठो येषां ते । सितत्वा[त्]182 केतकानाम् । पुनः कीदृशा दशार्णाः? गृहबलिभुजां चटकानां काकानां183 वा नीडारम्भैरालयोद्या(घ)मैः184 आकूलग्रामचैत्याः; आकूलानि व्याप्तानि ग्रामचैत्यानि, ग्रामपादपा वृक्षाः, येषु ते । पुनरपि कीदृशाः? परिणतफलश्यामजम्बूवनान्ताः परिणतफलैः परिपक्वफ्लैः , श्यामजम्बूवनान्ता: येषु ते ॥२४॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्समभङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि ।। २५।।185
हे जलद !186 तेषां दशार्णानां विदिशालक्षणां विदिसे(शे)ति लक्षणं नाम यस्याः सा, ता राजधानी गवा कामुकत्वस्य कामी(मि)187जनस्याऽविकलं संपूर्ण फलं सद्यस्तत्कालं लब्धा लप्स्यसि(से) । कुत इन्याह ? यद्यस्मात्कारणात्{कारणात्} चे(वे)त्रवत्या188 नद्यास्तदेवंविधं पयः पास्यसि । कीदृशं पयः? तीरोपात(न्त)189स्तनितसुभगं, तीरोपान्ते स्तनितेन विहगकूजितेन, सुभगं रम्य , यत्तत् । पुनः कीदृशं ? स्वादु मिष्टम् । तत्पयः किमिव ? सुखमिव यथा कश्चित्कामी कस्याश्चित्कामिन्याः रतिकूजितेन रम्यं सभ्रभङ्ग कटका(टाक्षा?)न्वितं 190 मुखं पीत्वा कामुकजनानां सम्पूर्णफलं प्राप्नोति, तथा भवान्न(न)पीत्यर्थ.191 ॥२५॥
नीचैराख्यं गिरिमधिषसेस्तत्र विश्रामहेतोस्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभियौ वनानि ॥२६।।192
हे पयोद ! तत्र विदिशायां नीराख्यं गिरिमचलं विश्रामहेतोनिवासार्थमधिवसेराश्रयः । कीदृशं नीराख्यं गिरि(रि) प्रौढ पुष्पैः विकसितकुसुमैः कदम्पैः नीपौः त्वदीयसंपर्कः मित्रस्य मेलापकस्त्वस(सं)193पर्कस्तस्मात् त्वत्सम्पर्कात् । उत्प्रेक्ष्यते, पुलकितमिव194 [रोमाञ्चितमिव] ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org