Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३०८
तिष्ठदगु-आदयः
(१३) तिष्ठद्गुप्रभृतीनि च । १७ ।
प०वि० - तिष्ठद्गु-प्रभृतीनि ९ । ३ च अव्ययपदम् ।
स० - तिष्ठद्गुप्रभृति येषां तानि तिष्ठद्गुप्रभृतीनि (बहुव्रीहि: ) । अनु० - 'अव्ययीभावः' इत्यनुवर्तते ।
अन्वयः - तिष्ठद्गुप्रभृतीनि चाव्ययीभावः ।
अर्थः- तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञकानि भवन्ति । प्रभृति:=आदिः ।
उदा० - तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेषः ।
पाणिनीय-अष्टाध्यायी-प्रवचनम्
गण:- तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लूनयवम्। लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाणयवम्। संहृतबुसम् । संह्रियमाणबुसम् । एते कालशब्दाः । समभूमि। समपदाति। सुषमम्। विषमम्। निष्णमम् । दुष्षमम्। अपरसमम्। आयतीसमम्। प्राह्वम्। प्ररथम् । प्रमृगम् । प्रदक्षिणम्। अपरदक्षिणम्। संप्रति । असंप्रति । पापसमम् । पुण्यसमम् । इच् कर्मव्यतिहारे । दण्डादण्डि । मुसलामुसलि । इति तिष्ठगुप्रभृतीनि ।
आर्यभाषा - अर्थ - (तिष्ठद्गुप्रभृतीनि ) तिष्ठद्गु आदि शब्दों की (च) ही (अव्ययीभावः) अव्ययीभाव संज्ञा होती है।
उदा० - तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेष: । जिस समय गौवें दोहन के लिये खड़ी हो जाती हैं, उस काल को 'तिष्ठद्गु' कहते हैं।
विशेष- यहां 'चकार' निश्चयार्थक है, इससे गण में गठित 'तिष्ठद्गु' आदि शब्दों की ही अव्ययीभाव संज्ञा होती है। इससे परमं तिष्ठद्गु यहां परम शब्द का समास नहीं होता है ।
पारे मध्ये
(१४) पारे मध्ये षष्ठ्या वा । १८ ।
प०वि०- पारे अव्ययपदम् मध्ये अव्ययपदम्, षष्ठ्या ३।१ वा
अव्ययपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org