Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३१८
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(तत्कृतेन) शकुलया खण्ड इति शङ्कुलाखण्ड: । किरिणा काण इति किरिकाण: । (अर्थेन) धान्येन अर्थ इति धान्यार्थः ।
आर्यभाषा-अर्थ-(तृतीया) तृतीयान्त सुबन्त का (गुणवचनेन) गुणवाची (तत्कृत-अर्थेन) तत्कृत समर्थ सुबन्त तथा अर्थ शब्द के साथ (विभाषा) विकल्प से समास होता है और उस समास की (तत्पुरुषः) तत्पुरुष संज्ञा होती है। यहां तत्कृत का अर्थ तृतीयान्त पद के अर्थ से किया हुआ खण्ड आदि है।
उदा०-(तत्कृत) शकुलया खण्ड इति शकुलाखण्डः । सरोता से किया हुआ सुपारी आदि का टुकड़ा। किरिणा काण इति किरिकाण: । बाण से किया गया काणा। (अर्थ) धान्येन अर्थ इति धान्यार्थ: । धान्य अन्न से प्रयोजन।
सिद्धि-शकुलाखण्डः । शकुला+टा+खण्ड+सु । खकुलाखण्ड+सु । शकुलाखण्डः । ऐसे ही-किरिकाण:, धान्यार्थः । तृतीया(१) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः ।३१।
प०वि०-पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्षणै: ३।३ ।
स०-पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्षणश्च ते-पूर्व०श्लक्षणा:, तै:-पूर्व०श्लक्षणैः (इतरेतरयोगद्वन्द्व:) ।
अनु०-तृतीया' इत्यनुवर्तते।
अन्वयः-तृतीया सुप् पूर्व० श्लक्षणैः सुभिः सह विभाषा समासस्तत्पुरुषः ।
अर्थ:-तृतीयान्तं सुबन्तं पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः समर्थैः सुबन्तै: सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ।
उदा०-(पूर्व:) मासेन पूर्व इति मासपूर्वः । (सदृश:) पित्रा सदृश इति पितृसदृशः। (सम:) पित्रा सम इति पितृसमः। (ऊनार्थः) माषण ऊनमिति माषोणम् । माषेण विकलम् इति माषविकलम् । (कलह:) असिना कलह इति असिकलहः। (निपुण:) वाचा निपुण इति वाङ् निपुणः । (मिश्रः) गुडेन मिश्र इति गुडमिश्रः । (श्लक्षण:) आचारेण श्लक्षण इति आचारश्लक्षण: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org