Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४५५
द्वितीयाध्यायस्य चतुर्थः पादः नदीदेशवाचिनाम्
(६) विशिष्टलिङ्गो नदी देशोऽग्रामाः।७। प०वि०-विशिष्टलिङ्ग: ११ नदी ११ देश: १।१ । अग्रामा: १।३ ।
स०-विशिष्टं लिङ्गं यस्य स विशिष्टलिङ्ग: (बहुव्रीहिः) । शालासमुदायो ग्राम: । न ग्रामा इति अग्रामा: (नञ्तत्पुरुषः) ।
अनु०-एकवचनं द्वन्द्व इति चानुवर्तते।
अन्वय:-विशिष्टलिङ्गानां नदीनामग्रामाणां देशानां च द्वन्द्व एकवचनम्।
अर्थ:-विशिष्टलिङ्गानाम्=भिन्नलिङ्गानां नदीवाचिनां ग्रामवर्जितानां देशवाचिनां च शब्दानां द्वन्द्वसमास एकस्यार्थस्य वाचको भवति।
उदा०-(१) नदीवाचिनाम्-उद्ध्यश्च इरावती च एतयो: समाहार उद्ध्येरावति । गङ्गा च शोणश्च एतयो: समाहारो गङ्गाशोणम्।
(२) देशवाचिनाम्-कुरुश्च कुरुक्षेत्रं च एतयो: समाहार: कुरुकुरुक्षेत्रम् । कुरुश्च कुरुजाङ्गलं च एतेषां समाहार: कुरुकुरुजाङ्गलम्।
आर्यभाषा-अर्थ-(विशिष्टलिगः) भिन्न लिड्गावाले (नदी) नदीवाची तथा (अग्रामा:) ग्रामवाची शब्दों को छोड़कर (देश:) देशवाची शब्दों का (द्वन्द्व:) द्वन्द्व समास (एकवचनम्) एक अर्थ का वाचक होता है।।
उदा०-(१) नदीवाची-उद्ध्यश्च इरावती च एतयो: समाहार: उद्ध्येरावति। उद्ध्य और इरावती नदी का संगम । गङ्गा च शोणश्च एतयो: समाहारो गङ्गाशोणम् । गङ्गा और शोण नदी का संगम।
(२) देशवाची-कुरुश्च कुरुक्षेत्रं च एतयो: समाहार: कुरुकुरुक्षेत्रम् । कुरु और कुरुक्षेत्र का संधिस्थान। कुरवश्च कुरुजाङ्गलं च एतेषां समाहार: कुरुकुरुजाङ्गलम् । कुरु और कुरुजाङ्गल देश का सन्धिस्थान।
सिद्धि-(१) उद्ध्येरावती। उद्ध्य+सु+इरावती+सु। उद्ध्येरावति+सु। उद्ध्येरावति।
यहां उद्ध्य और इरावती इन नदीवाची शब्दों का द्वन्द्व समास है। ये दोनों भिन्न लिङ्गवाले हैं। उद्ध्य शब्द पुंलिङ्ग और इरावती शब्द स्त्रीलिङ्ग है। इस सूत्र से इनके द्वन्द्व समास में एकवचन का विधान किया गया है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org