Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 575
________________ ५३४ सुब्लुक्प्रतिषेधः (२५) नाव्ययीभावादतोऽमृत्वपञ्चम्याः । ८३ । प०वि०-न अव्ययपदम् अव्ययीभावात् ५ । १ अत: ५ ।१ अम् १।१ तु अव्ययपदम्, अपञ्चम्याः ६ |१ | स०-न पञ्चमी इति अपञ्चमी, तस्या अपञ्चम्या : ( नञ्तत्पुरुष: ) । अनु० - लुक् सुप् इति चानुवर्तते । अन्वयः - अतोऽव्ययीभावात् सुपो लुङ् न, सुपस्त्वम्, अपञ्चम्याः । अर्थः-अदन्ताद् अव्ययीभावाद् उत्तरस्य सुप्-प्रत्ययस्य लुङ् न भवति, सुपः स्थाने तु अम् - आदेशो भवति, विभक्ति वर्जयित्वा । उदा०-कुम्भस्य समीपमिति उपकुम्भम् । उपकुम्भं तिष्ठति । उपकुम्भं पश्य । पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा - अर्थ - ( अतः ) अकारान्त ( अवययीभावः) अव्ययीभाव समास से परे (सुपः) सुप् प्रत्यय का (लुक्) लोप (न) नहीं होता है (तु) अपितु सुप् के स्थान में (अम् ) अम् - आदेश होता है (अपञ्चम्याः) पञ्चमी विभक्ति को छोड़कर । उदा० - कुम्भस्य समीपमिति उपकुम्भम् । कुम्भ के पास । उपकुम्भं तिष्ठति । वह कुम्भ के पास खड़ा है। उपकुम्भं पश्य । तू कुम्भ के समीपस्थ को देख । सिद्धि-उपकुम्भम् । उपकुम्भ+सु । उपकुम्भ+अम्। उपकुम्भम्। यहां उप और कुम्भ सुबन्त का 'अव्ययं विभक्ति०' (२ 1१ 1६ ) से अव्ययीभाव समास है। अव्ययीभावश्च' ( १ । १ । ४२ ) से अव्ययीभाव समास की अव्यय संज्ञा है । पूर्व सूत्र से अव्ययीभाव से 'सुप्' प्रत्यय का लुक् प्राप्त था। इस सूत्र से सुप् प्रत्यय के लुक् का प्रतिषेध होता है और सुप् के स्थान में 'अम्' आदेश भी होता है। तृतीया + सप्तमी ( बहुलम्) - (२६) तृतीयासप्तम्योर्बहुलम् । ८४ । प०वि०-तृतीया-सप्तम्योः ६।२ बहुलम् १।१ स०-तृतीया च सप्तमी च ते तृतीयासप्तम्यौ, तयो: - तृतीयासप्तम्योः (इतरेतरयोगद्वन्द्वः) । अनु०-अव्ययीभावात्, अतः, अम् इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590