Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
द्वितीयाध्यायस्य चतुर्थः पादः
४८१
स०-आदेशः=कथनम्। अन्वादेशोऽनुकथनम्, तस्मिन् अन्वादेशे । तृतीया आदिर्यस्या: सा तृतीयादि:, तस्याम् - तृतीयादौ ( बहुव्रीहि: ) । अन्वयः-अन्वादेशे इदमोऽश् अनुदात्तस्तृतीयादौ ।
अर्थ:- अन्वादेशविषयस्य इदंशब्दस्य स्थानेऽश् - आदेशो भवति, स चानुदात्तो भवति, तृतीयादौ विभक्तौ परतः ।
उदा०-आदेशवाक्यम्-आभ्यां छात्राभ्यां रात्रिरधीता । अन्वादेशवाक्यम्-अथो आभ्यामहरप्यधीतम् । आदेशवाक्यम् - अस्मै छात्राय कम्बलं देहि । अन्वादेशवाक्यम् - अथो अस्मै शाटकमपि देहि । आदेशवाक्यम् - अस्य छात्रस्य शोभनं शीलम् । अन्वादेशवाक्यम् - अथो अस्य प्रभूतं स्वम् ।
I
आर्यभाषा-अर्थ- (अन्वादेशे ) अनुकथन विषयक ( इदम:) इदम् शब्द के स्थान में (अश्) अश्-आदेश होता है और वह (अनुदात्तः) अनुदात्त होता है (तृतीयादौ) तृतीया आदि विभक्ति परे होने पर ।
उदा० - आदेशवाक्य- आभ्यां छात्राभ्यां रात्रिरधीता। इन दो छात्रों ने सारी रात पढ़ा। अन्वादेशवाक्य- अथो आभ्यामहरप्यधीतम् । और इन दोनों छात्रों ने सारा दिन भी पढ़ा। आदेशवाक्य- अस्मै छात्राय कम्बलं देहि । इस छात्र को कम्बल दे । अन्वादेशवाक्य- अथो अस्मै शाटकमपि देहि । और इस छात्र को एक धोती भी दे। आदेशवाक्य- अस्य छात्रस्य शोभनं शीलम् । इस छात्र का स्वभाव अच्छा है। अन्वादेशवाक्य- अथो अस्य प्रभूतं स्वम् । और इसके पास पर्याप्त धन भी है।
सिद्धि - आभ्याम् । इदम्+भ्याम् । अश्+भ्याम्। अ+भ्याम् । आभ्याम् ।
यहां अन्वादेश विषय में इस सूत्र से इदम्' के स्थान में अश्- आदेश है। यह शित् होने से 'अनेकाल्शित् सर्वस्य' (१1१1५५ ) से सवदिश होता है। इसका स्वर अनुदात्त है। 'अनुदात्तौ सुप्पितौं' (३ 1१1४ ) से सु आदि प्रत्ययों का स्वर भी अनुदात्त होता है। एतद् (अश्) -
(२) एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । ३३ ।
प०वि० - एतदः ६ । १ त्र - तसोः ७ । २ त्र - तसौ १२ च अव्ययपदम्, अनुदात्तौ १।२ ।
स०-त्रश्च तस् च तौ-त्रतसौ तयो: त्रतसोः (इतरेतरयोगद्वन्द्वः) । त्रश्च तस् च तौ - त्रतसौ ( इतरेतरयोगद्वन्द्व : ) । अनु०-अन्वादेशे, अश्, अनुदात्त इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org