Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
द्वितीयाध्यायस्य तृतीयः पादः
४४७ षष्ठी तृतीया च(२४) तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ।७२।
प०वि०-तुल्यार्थैः ३।३ अतुला-उपमाभ्याम् ३।२ तृतीया ११ अन्यतरस्याम् अव्ययपदम्।
स०-तुल्योऽर्थो येषां ते तुल्यार्थाः, तै:-तुल्यार्थैः (बहुव्रीहिः)। तुला च उपमा च ते-तुलोपमे, न तुलोपमे इति अतुलोपमे, ताभ्याम्-अतुलोपमाभ्याम् (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः)।
अन्वयः-अतुलोपमाभ्यां तुल्यार्थैर्युक्तेऽन्यतरस्यां तृतीया।
अर्थ:-तुलोपमावर्जितैस्तुल्याथैः संयुक्ते शब्दे विकल्पेन तृतीया विभक्तिर्भवति । पक्षे च षष्ठी विभक्तिर्भवति।
उदा०-तुल्यो देवदत्तेन यज्ञदत्तः । तुल्यो देवदत्तस्य यज्ञदत्त: । सदृशो देवदत्तेन यज्ञदत्त: । सदृशो देवदत्तस्य यज्ञदत्तः ।
आर्यभाषा-अर्थ-(अतुलोपमाभ्याम्) तुला और उपमा शब्द को छोड़कर (तुल्याएं:) तुल्य अर्थवाले पदों से संयुक्त शब्द में (अन्यतरस्याम्) विकल्प से (तृतीया) तृतीया विभक्ति होती है। पक्ष में षष्ठी विभक्ति होती है।
उदा०-(१९ तुल्य-तुल्यो देवदत्तेन यज्ञदत्तः । यज्ञदत्त देवदत्त के समान है। तुल्यो देवदत्तस्य यज्ञदत्त: । अर्थ पूर्ववत् है। (२) सदृश-सदृशो देवदत्तेन यज्ञदत्त: । सदशो देवदत्तस्य यज्ञदत्तः। अर्थ पूर्ववत् है।
सिद्धि-तुल्यो देवदत्तेन यज्ञदत्तः। यहां तुल्य पद से संयुक्त देवदत्त' शब्द में तृतीया विभक्ति है। पक्ष में षष्ठी विभक्ति भी होती है जैसा कि उदाहरण में दर्शाया गया है।
तुला और उपमा शब्द का वर्जन इसलिये किया गया है कि यहां तृतीया विभक्ति न हो-तुला रामस्य नास्ति । उपमा कृष्णस्य न विद्यते। षष्ठी चतुर्थी च(२५) चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ७३। ___प०वि०-चतुर्थी ११ च अव्ययपदम्, आशिषि ७।१ । आयुष्य-मद्रभद्र-कुशल-सुख-अर्थ-हितै:३।३।।
स०-आयुष्यं च मद्रं च भद्रं च कुशलं च सुखं च अर्थश्च हितश्च तानि, आयुष्य०हितानि, तै:-आयुष्य०हितैः (इतरेतरयोगद्वन्द्वः) ।
sa.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org