Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४१३
द्वितीयाध्यायस्य तृतीयः पादः
४१३ द्वितीया
(४) एनपा द्वितीया।३१। प०वि०-एनपा ३१ द्वितीया १।१ । अन्वय:-एनपा युक्ते शब्दे द्वितीया।
अर्थ:-एनप्-प्रत्ययान्तेन पदेन संयुक्ते शब्दे द्वितीया विभक्तिर्भवति । पूर्वेण षष्ठी प्राप्ताऽनेन द्वितीया विधीयते।
उदा०-दक्षिणेन ग्रामं गुरुकुलम् । उत्तरेण ग्रामं आश्रमः ।
आर्यभाषा-अर्थ-(एनपा) एनप् प्रत्यय जिसके अन्त में है उस पद से संयुक्त शब्द में (द्वितीया) द्वितीया विभक्ति होती है। पूर्व सूत्र से षष्ठी विभक्ति प्राप्त थी।
उदा०-दक्षिणेन ग्रामं गुरुकुलम् । गांव की दक्षिण दिशा में अदूर (निकट) ही गुरुकुल है। उत्तरेण ग्रामं आश्रम: । गांव की उत्तर दिशा में अदूर ही एक आश्रम है।
सिद्धि-दक्षिणेन ग्रामं गुरुकुलम् । दक्षिण+डि+एनम् । दक्षिण+एन । दक्षिणेन ।
यहां एनबन्यतरस्यामदूरोपञ्चम्या:' (५।३।३५) से प्रथमा और सप्तमी विभक्तिमान् दिशावाची दक्षिण शब्द से दिक, देश और काल अर्थ में एनप् प्रत्यय होता है। प्रकृत सूत्र से उससे संयुक्त 'ग्राम' शब्द में द्वितीया विभक्ति का विधान किया है। ऐसे ही-उत्तरेण ग्राममाश्रमः। तृतीया पञ्चमी च
(५) पृथग्विनानाभिस्तृतीयाऽन्यतरस्याम् ।३२
प०वि०-पृथग्-विना-नानाभि: ३।३ तृतीया १।१ अन्यतरस्याम् अव्ययपदम्।
स०-पृथक् च विना च नाना च ते-पृथग्विनानानाः, तै:पृथग्विनानानाभिः (इतरेतरयोगद्वन्द्व:)।
अन्वय:-पृथग्विनानानाभिर्युक्ते शब्देऽन्यतरस्यां तृतीया।
अर्थ:-पृथग्विनानानाभि: संयुक्ते शब्दे विकल्पेन तृतीया विभक्तिर्भवति, पक्षे च पञ्चमी विभक्तिर्भवति।
उदा०-(१) पृथक्-पृथग् देवदत्तेन यज्ञदत्तः। पृथक् देवदत्ताद् यज्ञदत्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org