Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्र -प्रवचनम्
यहां प्राप्त और उदक दो पदों का बहुव्रीहि समास किया गया है। ये दोनों पद अपने से अन्य ( भिन्न) तीसरे ग्राम पद : अर्थ में विद्यमान हैं कि 'ग्राम' जिसे जल प्राप्त होगया है । ऐसे ही- 'ऊढरथः ' आदि ।
३७६
अव्ययादयः
(३) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये । २५ ।
प०वि० संख्यया ३ । १ अव्यय - आसन्न - अदूर- अधिक-संख्या: १ । ३ संख्येये ७।१।
स० - अव्ययं च आसन्नं च अदूरं च अधिकं च संख्या च ताः - अव्यय० संख्या: ( इतरेतरयोगद्वन्द्व : ) । संख्यातुमर्ह संख्येयम्, गणनीयमित्यर्थः (कृदन्तवृत्ति: ) ।
अनु० - विभाषा, बहुव्रीहिः इति चानुवर्तते ।
अन्वयः-अव्यय०संख्याः सुप: संख्येये संख्यया सुपा सह विभाषा समासो बहुव्रीहिः ।
अर्थ:-अव्ययादयः सुबन्ता संख्येयेऽर्थे वर्तमानेन संख्यावाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, बहुव्रीहिश्च समासो भवति ।
उदा०- (अव्ययम्) दशानां समीपमिति उपदशाः पुरुषाः । (आसन्नम् ) दशानामसन्नमिति आसन्नदशाः पुरुषाः । ( अदूरम्) अदूरं दशानामिति अदूरदशाः पुरुषाः। (अधिकम् ) अधिकं दशानामिति अधिकदशाः पुरुषाः । (संख्या) द्वौ च त्रयश्च ते द्वित्राः पुरुषाः । त्रयश्च चत्वारश्च ते त्रिचतुरा: पुरुषा: ।
आर्यभाषा - अर्थ - (अव्यय० संख्याः) अव्यय, आसन्न, अदूर, अधिक और संख्यावाची सुबन्तों का (संख्येये) गणनीय अर्थ में विद्यमान ( संख्यया ) संख्यावाची सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (बहुव्रीहि: ) बहुव्रीहि संज्ञा होती है।
उदा०- (अव्यय) दशानां समीपमिति उपदशा: पुरुषा: । लगभग दश पुरुष । (आसन्न ) आसन्नं दशानामिति आसन्नदशा: पुरुषा: । अर्थ पूर्ववत् । ( अदूर) अदूरं दशानामिति अदूरदशा: पुरुषा: । अर्थ पूर्ववत् । (अधिक) अधिकं दशानामिति अधिकदशाः पुरुषा: । दश से अधिक पुरुष । (संख्या) द्वौ च त्रयश्चेति द्वित्रा: पुरुषा: । दो-तीन पुरुष। त्रयश्च चत्वारश्च इति त्रिचतुराः पुरुषाः । तीन-चार पुरुष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org