Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
३३८
गाव: समाहृता इति पञ्चगवम् । पञ्चगवं धनं यस्य स पञ्चगवधनः । पञ्च नाव: समाहृता इति पञ्चनावम् । पञ्चनावं प्रियं यस्य स पञ्चनावप्रियः । समाहारे (संख्या) - पञ्चानां पूलानां समाहार इति पञ्चपूली। अष्टानाम् अध्यायानां समाहार इति अष्टाध्यायी ।
आर्यभाषा-अर्थ- 'तद्धितार्थोत्तरपदसमाहारे चं' (२1१1५० ) इस सूत्र से ( संख्यापूर्व:) जो संख्यापूर्ववाला समास है उसकी ( द्विगु:) द्विगु संज्ञा होती है और जो दिशापूर्ववाला समास है उसकी कर्मधारय संज्ञा है ।
उदा० - तद्धितार्थ (संख्या) - पञ्चानां नापितानामपत्यमिति पाञ्चनापितिः । इत्यादि सब उदाहरण संस्कृत भाग में देख लेवें । अर्थ पूर्व सूत्र के भाषार्थ में लिख दिया है।
कर्मधारयतत्पुरुषः
कुत्सितानि
(५) कुत्सितानि कुत्सनैः । ५३ ।
प०वि०-कुत्सितानि १।३ कुत्सनैः ३।३। अनु० - 'समानाधिकरणेन' इत्यनुवर्तते ।
अन्वयः - कुत्सितानि सुपः कुत्सनैः सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः ।
अर्थ :- कुत्सित-वाचीनि सुबन्तानि समानाधिकरणै: कुत्सनवाचिभिः समर्थै: सुबन्तैः सह विकल्पेन समस्यन्ते कर्मधारयतत्पुरुषश्च समासो भवति ।
उदा०-वैयाकरणश्चासौ खसूचिरिति वैयाकरणखसूचि: । याज्ञिकश्चासौ कितव इति याज्ञिककितवः । मीमांसकश्चासौ दुर्दुरूट इति मीमांसकदुर्दुरूढः । आर्यभाषा - अर्थ - (कुत्सितानि) निन्दितवाची सुबन्तों का (समाधिकरणेन ) समान अधिकरणवाले (कुत्सनैः) निन्दावाची समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०-वैयाकरणश्चासौ खसूचिरिति वैयाकरणखसूचि: । कोई प्रश्न पूछने पर जो वैयाकरण आकाश की ओर देखता है और उसे कोई उत्तर नहीं सूझता वह 'वैयाकरणखसूचि' कहाता है। याज्ञिकश्चासौ कितव इति याज्ञिककितव: । जो याज्ञिक यज्ञ न कराने योग्य यजमान का भी दक्षिणा आदि के लोभ से यज्ञ कराता है वह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org