Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 85
________________ न्या. प्र. व. १४] पाचवकता (३) संप्रत्ययस्य भाषात् । तथाहि-प्रदेशस्थं धूममुपलब्धवतस्तस्य धूमस्याग्निना साध्यधर्मेण सह व्याप्तिस्मरणे तयोरुपनयव्याप्तिदर्शनवाक्ययोः सामर्थ्यादेवाग्निरत्रेति भवति । नहि स्वार्यानमाने स्वयंप्रतीतौ प्रमेयं कश्चिदुपदर्शयिता तद्वत्परार्थानुमानेऽपि । अतः पक्षो न निर्देश्यः । तथा प्रतिज्ञायाः प्रयोगे निराकृते तस्या निगमनमपि दूरापास्तमेव । तर्हि पक्षलक्षणं निर्यकत्वात्कषु न. युज्यते बौद्धस्य । येषां हि नैयायिकादीनां पक्षनिर्देशोऽस्ति तेषामेव युज्यते लक्षणं कर्तुम् । सत्यमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुच्यते किंतु शिष्यस्य सम्यक्त्वलक्षणपरिज्ञानार्थम् । अन्यथा वाद्युपन्यस्तस्य पक्षस्य गुणदोषावजानन् कथं तद्गुणदोषविचारणायां प्रवणः स्यात् । अत एतदभिप्रायेणोक्तम् । पक्षोपलक्षितहेतुदृष्टान्तवचनानि साधनमिति । अथेह साधनशब्दो व्युत्पत्तिप्रयनिष्पन्नस्ततश्च कस्यां कोऽर्थोऽस्येत्याह । इह चेत्यादि । इहेति साधनशब्दविचारे । परसंताने इत्यन्यज्ञानसंततौ। प्रतिपाद्यं गतं श्रितं प्रतिपाद्यगतम् । तत्फलत्वादिति । ज्ञानफलत्वात् । पक्षादिवचनस्येति शेषः । यदि ज्ञानं साधनं भावपक्षे तर्हि पक्षादिवचनानि साधनमिति कथमुक्तमित्याह । पक्षादीति । कार्ये प्रतिपाद्यगतज्ञाने । कारणस्य पक्षादिक्चनस्य । उपचारात् समारोपात् । ततो यद्यत्रोपचर्यते तत्तेन व्यपदिश्यते इति न्यायात्पक्षादिवचनैर्गम्यत्वाज्ज्ञानस्य तदपि पक्षादिवचनानीति । तथाहि यत्पक्षादिवचनं यत्र प्रतिपाद्यगतज्ञाने उपचयेते तत्प्रतिपाद्यगतं ज्ञानं तेन पक्षादिवचनेन व्यपदिश्यते । तत्तेनेत्यत्र तदित्यनेनोपचरणीयस्याधारभूतं वस्तु सर्वत्र ग्राह्यम् । यथेदमिति। पुराणमेव पौराणम् । स्वार्थेऽण् । अत्र हि शरीरं कर्म कार्यमपि पुरातनकर्मणा कारणेन व्यपदिश्यते । शरीरे कार्य पुरातनस्य कर्मण उपचारोऽत्रेति हृदयम् । अथेह बहुवचनान्तेनैकवचनान्तस्य सामानाधिकरण्यं कथमित्याह । यथा वृक्षा इत्यादि। आइत्यादि। साधनमित्यत्रेत्यर्थः । समुदितानामेवेति । पक्षोपलक्षितहेतुदृष्टान्तवचनानां मिलितानामेव न वेकैकशो विशकलितानामित्यर्थः । समस्तानां यत्साधनत्वं तस्य ज्ञापनार्थम् । नन्वेवं सति विदुषां वाच्यो हेतुरेव हि केवल इति हेतोः केवलस्य साधनत्वं यदुच्यते तद्विरुध्यते । नैवम् । अन्युत्पन्नविनेयगणमधिकृत्य समस्तानां साधनस्वम् । व्युत्पन्नमतीश्वोद्दिश्य केवलस्यापि हेतोः साधनत्वमिति ज्ञेयम् । व्युत्पन्नमतयो हि हेतुमात्रादेव साध्यं प्रतिपद्यन्ते। यथा स्वार्थानुमाने हेतुमात्रादेव साध्यप्रतीतिस्तथा परार्थानुमानेऽपि हेतुमात्रेणापीति भावः । कारकमिति जनकम् । व्यञ्जनमिति प्रकाशकम् । उक्तं चेत्यादि । इह स्वसमयपरसमयज्ञा इत्यनेन ज्ञानातिशयमाह । कुलना इत्यनेनाकुलनक्रियाणामुपहासादिरूपाणामकारकत्वं तेषामाह । पक्षद्वयेप्सिता इत्यनेन च वल्लभत्वं सूचयति । क्षमिण इत्यनेनारोषणत्वमाह । वादपयेष्वाभियुक्ता अनेन तु वादमार्गे कृताभ्यासत्वं सूचयति । तुलया सह समास्तुलासमाः । अनेन तु मध्यस्थतामिति । अयमों यथा तुला दवरके गृहीता गुरुतरं पक्षमङ्गीकृत्य नीचैर्नमति इतरस्य च न्यनतां दर्शयति पक्षद्वयतुल्यतायां च मध्ये दवरकेण वृता समतामालम्पति एवं शुद्ध पक्षं तेऽपि शोभनतया समर्पयन्ति हीनपक्षं चाशोभनतया कथयन्तीति । समगुणत्वे व समतामेवोपदर्शयन्ति । आहेत्यादि। पूर्वोपवर्णितस्वरूपाणां सर्वोऽप्य

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228