________________
न्या. प्र. व. १४] पाचवकता
(३) संप्रत्ययस्य भाषात् । तथाहि-प्रदेशस्थं धूममुपलब्धवतस्तस्य धूमस्याग्निना साध्यधर्मेण सह व्याप्तिस्मरणे तयोरुपनयव्याप्तिदर्शनवाक्ययोः सामर्थ्यादेवाग्निरत्रेति भवति । नहि स्वार्यानमाने स्वयंप्रतीतौ प्रमेयं कश्चिदुपदर्शयिता तद्वत्परार्थानुमानेऽपि । अतः पक्षो न निर्देश्यः । तथा प्रतिज्ञायाः प्रयोगे निराकृते तस्या निगमनमपि दूरापास्तमेव । तर्हि पक्षलक्षणं निर्यकत्वात्कषु न. युज्यते बौद्धस्य । येषां हि नैयायिकादीनां पक्षनिर्देशोऽस्ति तेषामेव युज्यते लक्षणं कर्तुम् । सत्यमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुच्यते किंतु शिष्यस्य सम्यक्त्वलक्षणपरिज्ञानार्थम् । अन्यथा वाद्युपन्यस्तस्य पक्षस्य गुणदोषावजानन् कथं तद्गुणदोषविचारणायां प्रवणः स्यात् । अत एतदभिप्रायेणोक्तम् । पक्षोपलक्षितहेतुदृष्टान्तवचनानि साधनमिति । अथेह साधनशब्दो व्युत्पत्तिप्रयनिष्पन्नस्ततश्च कस्यां कोऽर्थोऽस्येत्याह । इह चेत्यादि । इहेति साधनशब्दविचारे । परसंताने इत्यन्यज्ञानसंततौ। प्रतिपाद्यं गतं श्रितं प्रतिपाद्यगतम् । तत्फलत्वादिति । ज्ञानफलत्वात् । पक्षादिवचनस्येति शेषः । यदि ज्ञानं साधनं भावपक्षे तर्हि पक्षादिवचनानि साधनमिति कथमुक्तमित्याह । पक्षादीति । कार्ये प्रतिपाद्यगतज्ञाने । कारणस्य पक्षादिक्चनस्य । उपचारात् समारोपात् । ततो यद्यत्रोपचर्यते तत्तेन व्यपदिश्यते इति न्यायात्पक्षादिवचनैर्गम्यत्वाज्ज्ञानस्य तदपि पक्षादिवचनानीति । तथाहि यत्पक्षादिवचनं यत्र प्रतिपाद्यगतज्ञाने उपचयेते तत्प्रतिपाद्यगतं ज्ञानं तेन पक्षादिवचनेन व्यपदिश्यते । तत्तेनेत्यत्र तदित्यनेनोपचरणीयस्याधारभूतं वस्तु सर्वत्र ग्राह्यम् । यथेदमिति। पुराणमेव पौराणम् । स्वार्थेऽण् । अत्र हि शरीरं कर्म कार्यमपि पुरातनकर्मणा कारणेन व्यपदिश्यते । शरीरे कार्य पुरातनस्य कर्मण उपचारोऽत्रेति हृदयम् । अथेह बहुवचनान्तेनैकवचनान्तस्य सामानाधिकरण्यं कथमित्याह । यथा वृक्षा इत्यादि। आइत्यादि। साधनमित्यत्रेत्यर्थः । समुदितानामेवेति । पक्षोपलक्षितहेतुदृष्टान्तवचनानां मिलितानामेव न वेकैकशो विशकलितानामित्यर्थः । समस्तानां यत्साधनत्वं तस्य ज्ञापनार्थम् । नन्वेवं सति विदुषां वाच्यो हेतुरेव हि केवल इति हेतोः केवलस्य साधनत्वं यदुच्यते तद्विरुध्यते । नैवम् । अन्युत्पन्नविनेयगणमधिकृत्य समस्तानां साधनस्वम् । व्युत्पन्नमतीश्वोद्दिश्य केवलस्यापि हेतोः साधनत्वमिति ज्ञेयम् । व्युत्पन्नमतयो हि हेतुमात्रादेव साध्यं प्रतिपद्यन्ते। यथा स्वार्थानुमाने हेतुमात्रादेव साध्यप्रतीतिस्तथा परार्थानुमानेऽपि हेतुमात्रेणापीति भावः । कारकमिति जनकम् । व्यञ्जनमिति प्रकाशकम् । उक्तं चेत्यादि । इह स्वसमयपरसमयज्ञा इत्यनेन ज्ञानातिशयमाह । कुलना इत्यनेनाकुलनक्रियाणामुपहासादिरूपाणामकारकत्वं तेषामाह । पक्षद्वयेप्सिता इत्यनेन च वल्लभत्वं सूचयति । क्षमिण इत्यनेनारोषणत्वमाह । वादपयेष्वाभियुक्ता अनेन तु वादमार्गे कृताभ्यासत्वं सूचयति । तुलया सह समास्तुलासमाः । अनेन तु मध्यस्थतामिति । अयमों यथा तुला दवरके गृहीता गुरुतरं पक्षमङ्गीकृत्य नीचैर्नमति इतरस्य च न्यनतां दर्शयति पक्षद्वयतुल्यतायां च मध्ये दवरकेण वृता समतामालम्पति एवं शुद्ध पक्षं तेऽपि शोभनतया समर्पयन्ति हीनपक्षं चाशोभनतया कथयन्तीति । समगुणत्वे व समतामेवोपदर्शयन्ति । आहेत्यादि। पूर्वोपवर्णितस्वरूपाणां सर्वोऽप्य