________________
( ४१ )
न्यायप्रवेशवृत्तिपत्रिका ।
[ न्या. प्र. वृ. १३
1
1
तच्च तत्प्रयोजनं चेति विग्रहः । तथा चोक्तमित्यादि । हातुमिष्यते यः स हेयः । रागादिको अहिविषादिकश्च । उपादातुमिष्यते यः स उपादेयः । ज्ञानादिकः स्रक्चन्दनादिकश्च । हेयोपादेयावर्थी विदन्ति ये ते तथा । हेयोपादेयाभ्यां च तृतीयो राशिरेव नास्ति । उपेक्षणीयोऽपि धनुपादेयत्वाद्धेय एव । किमुक्तं भवति । यत्रोपादेयतेच्छा नास्ति स हेय एवेति । उपेक्षणीयेऽपि च ग्रहणेच्छा नास्तीति हेयतैव । अतोऽस्य हेयमध्य एवान्तर्भावो ज्ञेयः । आहेत्यादि । साभासं मुक्तिहेतवे इत्येव किमिति नोक्तमिति पराशयः । तत्प्रथमतयैवेति । तस्यानुत्तरप्रयोजनस्य प्रथमता तत्प्रथमता तयैव । निर्देशे क्रियमाणे । तस्येत्यनुत्तरप्रयोजनस्य । तस्यापीति न केवलं श्रोतॄणां कर्तुरपीत्यर्थः । अनन्तरपरंपरभेदाभ्यां भिद्यते स्म भिन्नं पृथक्कृतम् । इदमिति प्रयोजनम् । न्यायाद्वाह्या बहिर्भवास्तेषाम् । एतावानेवेति । इयत्परिमाणोऽष्टपदार्थप्रतिपादक इत्यर्थः । शिष्यते इति कथ्यते । अर्यते गम्यते उच्यते इत्यर्थः । अर्तेरौणादिकस्थप्रत्ययः । यद्वाऽर्यतेऽर्थिभिरभिलष्यते इत्यर्थः । चुरादिण्यन्तादरप्रत्ययः । शास्त्रार्थस्य संग्रहः पिण्डनं शास्त्रकारेण शास्त्रार्थसंग्रह: । अथ शास्त्रं बृहत्प्रमाणमनेकार्थप्रतिपादकं च यत्स्यात्तदुच्यते । इदं त्वल्पग्रन्थत्वादल्पपदार्थाभिधायकत्वाच्च कथमुच्यते शास्त्रमित्याह । शास्त्रता चेत्यादि । उद्देश उत्क्षेपो विशेष्यभणनम् । निर्देशो विशेषणभणनं निर्धारणं चेति । गुणवतः पदार्थस्य जातिगुणक्रियाभिः समुदाया - निर्धार्यस्याश्रयात्पृथक्करणं निर्धारणम् । समुदायवाचकाच्च षष्ठीसप्तम्युत्पत्तिरिति । साधनत्वेनेति । प्रतिपाद्यप्रतीतावारोपकत्वेन । क्षीरसंपन्नत्वेन दुग्धप्राचुर्येण । यद्यप्यन्यत्र गोषु कृष्णा संपमक्षीरेत्यादौ वाक्ये संपन्नक्षीरास गोषु कृष्णगुणोपेताया गोः कृष्णगुणेन निर्धारणप्रसिद्धिस्तथापि क्षीरसंपन्नत्वगुणेनापि निर्धारणे न काचित्क्षतिरिति मन्यते । शबलधवलादिवर्णविशिष्टादुदुग्भवतो दोहनक्रिया सामर्थ्याद्गवां समुदाया देता स्वियं गौः परिदृश्यमाना क्षीरसंपन्ना वर्तते इति यदा वा व्यपदिश्यते तदेदं निर्धारणं क्षीरसंपन्नत्वगुणेनैव भवतीति । पच्यत इत्यादिकश्च स यो व्यक्तीक्रियते इत्याह । स चेति । तस्य बहुव्रीहेर्गुणा अवयवा आरम्भकविशेषा यैर्बहुव्रीहिरारभ्यते ते तद्गुणास्तेषां संविज्ञानं ग्रहणं यत्र । यद्वा तस्य बहुव्रीहिवाच्यस्य गुणस्तद्गुणस्तस्य संविज्ञानं यत्रेति स तथा । पर्वतादिकमित्यत्रादिशब्दः समीपार्थः । उपलक्षणमिति । भावनेति । पर्वतः क्षेत्रस्य समीप भूतत्वात्तस्यैवोपलक्षक इत्यर्थः । ब्राह्मणादयो.... बिति । अत्रादिशब्दस्य व्यवस्थार्थत्वाद्वाह्मणादिक्रमेण व्यवस्थिता इत्यर्थः । अस्मादित्यवधिभूतात् । ते चेत्यादि । इह केषांचिन्मते पञ्चावयवं वाक्यं साधनमुच्यते । यथा प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । हेतुः साध्यसद्भावभावतदभावाभावलक्षणः कार्यस्वभावानुपलम्भाख्यस्त्रिरूपः । साध्यसाधनयोर्व्याप्तिनिमित्तप्रतिबन्धग्राहकप्रमाणविषयः । साध्याभावे साधनाभावः । दर्शनाश्रयश्च दृष्टान्तो महानसजलाशयादिः । साध्यधर्मिणि हेतोरुपसंहार उपनयः । प्रतिज्ञायाः पुनर्वचनं निगमनम् । सौगतमते तु न पञ्चावयवमपीष्यते किंतु तन्मते हेतुपुरःसर एव प्रयोगः क्रियते । ततो हेतुदृष्टान्तयोरेव साधनावयवत्वं न पक्षस्य । पक्षानुखारेण साध्यप्रतीतिस्तर्हि कथमिति चेदुच्यते । उपनयन्याप्तिप्रदर्शनमात्रसामर्थ्यादेव साध्य