________________
न्या. प्र. दृ १२ पादेवकृता
(१) ज्ञानक्षणाः । संतानश्च संतत्यानुवर्तन्ते संस्कारा अस्मिन्निति संतानो भूतभवद्भविष्यत्क्षणप्रवाहरूप उच्यते। ततः सामान्यविशेषज्ञानक्षणसंततिस्वरूप इत्यर्थः ॥ नित्यत्वादिधर्मेति। नित्यत्वादिधर्मो यस्यात्मनः स तथा । इह धर्मादन् केवलाद्वैत्यन् । अस्यार्थः। केवलादसमस्तादेकपदभूताद्धर्मशब्दाटूहुप्रीही समासे वाऽन्भवति यथा परमधर्मः परमधर्मा । केवलादिति किम् ? । परमस्वधर्मः। परमः स्वो धर्मोऽस्येति त्रिपदेऽपि बहुव्रीही न स्यात् । केवलैकभूतपूर्वकपदयुक्ताद्धर्मात्स्यान्न दिव्यादिपदयुक्तादिति । प्रासनिकमिदमुक्तं सोपयोगत्वादिति । तत्प्रतिपादकप्रमाणाभावादिति । नित्यत्वादिधर्मकस्यात्मनो ग्राहकप्रत्यक्षादिप्रमाणाभावात्। तथा हि।न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्। नाप्यनुमानग्राह्योऽनुमानस्य लिङ्गलिजिनोः साक्षात्संबन्धदर्शनेन प्रवृत्तेः । आगमगम्योऽपि नासावागमानामन्योन्यं विसंवादात् । तस्मानित्यत्वादिधर्मकस्यात्मनोऽघटमानत्वाञ्चित्तचैत्तरूपविज्ञानसंततिरेवात्रात्मशब्दवाच्या ज्ञेया । तस्याश्च चिद्रूपत्वात्सुखदुःखेच्छाद्वेषप्रयत्नक्रियादिकं विज्ञानमुपजा. यते । तत आत्मसंविदे इति कोऽर्थः । चित्तचैत्तसंततेरवबोधायेति स्थितम् । आत्मसंविफलत्यादिति । प्रत्यक्षादीनामेवेति शेषः । आहेत्यादि । न केवलं स्वार्थानुमानमनुमानमेव साधनमपीत्यपेरर्थः । वस्तुतः इति । यद्यप्यनुमान ज्ञानस्वरूपं साधनं च पक्षादिवचनात्मकं तथापि साधनमप्यनुमानमेव । परमार्थतः तस्यापि ज्ञानोत्पादकत्वादिति भावः । ततश्च श्लोकमध्ये एकमेव साधनपदमनुमानपदं वा न्यस्यतामिति पराशयः । स्वार्थपरार्थरूपो भेदस्ताभ्यां वा भेदस्तस्मिन् । भेदेनेति । पृथग्भावन । प्रत्यक्षानुमाने पुरःसरेऽप्रेसरे यस्य साधनदूषणप्रयोगस्य स तथा तस्य भावस्तत्त्वम् तस्मात् । तयोः
साधनदूषणयोः प्रयोगस्तत्पयोगस्तस्य । तत्पुरःसरत्वे प्रत्यक्षानुमानपुरःसरत्वे । साधन. दूषणप्रयोगस्येति शेषः । तत्फलत्वादिति । परसंवित्फलत्वात् । प्रत्यासत्तेन्यायादादावुपन्यासः । साधनदूषणयोरिति शेषः । यदेव संवित्फलं तदेवादावुपन्यस्यत इति मन्यते । परार्येत्यादि । ततो यदेव परोपकारकारि तदेवादावुपन्यसनीयमिति भावः ॥ अधुना प्राम्यदुक्तमयं च प्रयोजनाभियेये एव दर्शयति साक्षादित्यादि तत्प्रदर्शनादित्याह । इहेत्यादि । इहेति शास्त्रे । ननु यथा अभिधेयप्रयोजने वचनेन निर्दिष्टे एवं संबन्धोऽपि किमिति नोक्त इत्याह । संवन्ध विति । कार्य त्विति । प्रकरणार्थस्य साधनादेरभिधेयस्य परिज्ञानमवबोधः । अथ कार्यकारणयोः संबन्धोऽस्तीति कथं प्रत्येतव्यमित्याह । तथाहीति । इदमित्यर्थपरिज्ञानम् । अस्येति शास्त्रस्य । अयं प्रयोजनेन सह शास्त्रस्य संबन्ध उक्तः । तथेहाभिधानाभिधेयलक्षणोऽपि संबन्धः शास्त्रसाधनादीनां विज्ञेयो यथेदमस्याभिधेयमिति । एतेनेदं दर्शितम् । अभिधेयेन सह प्रयोजनेन च सह शास्त्रस्य संबन्धो भवतीति यथाऽस्येदमभिधेयमस्येदं प्रयोजनमिति । आहेत्यादि । फलसंबन्धं निरूपयता कार्य प्रयोजनमस्य प्रकरणार्यपरिज्ञानमित्युक्तम् । ततश्च यदि प्रयोजनत्वेन त्वया प्रकरणार्थपरिज्ञानमुच्यते तदोभयोरपि प्रयोजनत्वं प्राप्नोतीति प्रेयर्थः । ननु बहनामुत्तरोत्तराणां प्रयोजनानां पर्यन्तन किमित्याह । तथा स्यादि । इह जमति न विद्यते उत्तरमतनं यस्मादम्स्यातदनुसरम।