________________
(80)
न्यायप्रवेशवृत्तिपत्रिका |
[ न्या. प्र. वृ. ११
पक्षाद्युपन्यासात्किल साधनाभासेऽपि साधनसाम्यमस्ति । केवलं कस्यचित्पक्षादेर्दोषात्साधनाभासत्वमिति । आभासः सादृश्यं किंचित्साम्यमुच्यते । तथाऽनयोरपि यथाक्रमं विषयो धर्मविशिष्टो धर्मी सम्यक्साधनं चेति बोद्धव्यः । परेषां संविदिति कर्मणि षष्ठीयम् । वाक्यार्थस्त्वयमित्यादि । साभास इति । आभासयुक्तः । अत्र च यथा देवदत्तो यज्ञदत्तेन सह पूज्यतामित्युक्ते द्वयोरपि पूजा कर्तव्या भवति तथेहापि साधनदूषणे साभासे परसंविदे इत्युक्ते साधनादिचतुष्टयमपि परावबोधायेति गम्यते । धनुर्धर इति धारेर्धरोऽचि विज्ञेयः ॥ कार्यत्वेनेति कार्यरूपतयः इन्द्रियं कारणमाश्रित्य यदुत्पद्यते । एतेनेन्द्रियं कारणं प्रत्यक्षज्ञानं च तत्कार्यमित्यावेदितम् 1 विषयश्च प्रत्यक्षस्य स्वलक्षणरूपोऽर्थ इति । मीयतेऽर्थो वलयादिरनेन ज्ञानेन धूमादिलिङ्गदर्श नादुत्पन्नेन वह्न्यादिविषयाकारग्राहिणेति मानम् । वह्नचादिनाऽत्र भाव्यमित्येवमन्याद्यवबोधरूपं ज्ञानमित्यर्थः । इह च पश्चादर्थे वर्तमानस्यानुशब्दस्याव्ययं विभक्तीत्यादिना समामेन भवितव्यम् । स च नित्यो नित्यस्य वाक्याभाव इति स्वपदविग्रहमाह पश्चान्मानमनुमानमिति । पश्चाच्छब्दश्वावधिशब्दत्वात्पूर्वत्वमपेक्षत इत्याह पक्षेत्यादि । गृह्यतेऽनेनेति ग्रहणम् । लिङ्गरूपस्य धर्मस्य प्रत्यक्षं ग्रहणं च संबन्धस्मरणं चेति विग्रहे पक्षधर्मस्य हेतोर्ग्रहणसंबन्धस्मरणे । ते पूर्वे यस्य ज्ञानस्य तत्तथा । यद्वा पक्षधर्मस्य ग्रहणं च साध्यसाधनयोर विनाभावरूपस्य संबन्धस्य स्मरणं चेति विग्रहः । शेषं तथैव । एवंभूतं यज्ज्ञानं लिङ्गिनि तदनुमानम् । किमुक्तं भवति ? | गृहीत पक्षधर्मे स्मृते च साध्यसाधनसंबन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभान्युच्यते । वक्ष्यति त्रिरूपादित्यादि । नन्वेतत्सूत्रं धर्मोत्तरीयम् । न तु प्रकृतशास्त्रसूत्रम् । एतच्छास्त्रसूत्रं चेदं लिङ्गं पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेये ज्ञानमुत्पद्यते अग्निरत्र अनित्यः शब्द इति वा तदनुमानमिति । सत्यमेतद् यद्यप्यत्रैवंविधं सूत्रं न विद्यते तथाऽपि धर्मोत्तरीयसूत्रमप्यत्रत्यसूत्रोक्तानुमानलक्षणाभिधाय कमेवेत्यर्थतोऽत्रत्यधर्मोत्तरीयसूत्रयोः साम्यमेवेत्यर्थापेक्षया वक्ष्यतीति व्याख्येयमिति न विरोधः । अन्यस्त्वाह । नन्वनुमानमिति यद्यवयवीभावस्तदाऽनुमानस्येति प्रयोगो न स्यादव्ययीभावादित्यादिना भावेन यतो भाव्यम् । उच्यते । न सर्वदाऽव्ययीभावोऽपि तु तत्पुरुषोपि । अनुगतं संद्धं मानमनुमानमिति । तत्रानुगतं पक्षधर्मग्रहणादिना । मानं वह्नयस्तित्वविषयं ज्ञानमिति ज्ञेयम् । यद्वाऽनुमितिरनुमानमिति भावसाधनस्य वा द्रष्टव्यः । विषयश्चानुमानस्य सामान्यमिति । चशन्द्रः पूर्ववदिति । समुच्चयार्थ इत्यर्थः । यद्वा चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वसूचकः । तथाहि-- यथार्थाक्सिंवा. दत्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणं तद्वदर्थाविनाभावित्वादनुमानमपि परिच्छिन्नमर्थ प्रापयत्प्रमाणमिति । एतेन यदुक्तं कैश्वित्प्रत्यक्षं ज्येष्ठं प्रमाणं नानुमानमिति तत्प्रत्युक्तम् । यतो द्वयोरपि व्यापारे तुल्यबलत्वम्। तथा प्रत्यक्षानुमानाभासयोरपि विषयः सामान्यमिति ज्ञेयम् । इहात्मनो जीव इति पर्यायः परप्रसिद्धयोपात्तः । अथ तर्हि किंरूपोऽत्रात्मा ग्राह्य इत्याह आत्मा चेति । चित्तत्रैत्तानां संतानो रूपं यस्य स तथा । तत्र चित्तं सामान्यार्थग्राहि ज्ञानम् । चैत्ता विशेषावस्थाग्राहिणे