________________
न्या. प्र. वृ.१०]
पार्श्वदेवकृता
णादिजनप्रसिद्धं चोत्तरमिति विज्ञेयम् । तथा च तन्मतम् । सर्वस्यैव हि शास्त्रस्येत्यादि सिद्धार्थ सिद्धसंबन्धमित्यादीति च । इहेति जगति । न कचिदिति कार्ये । प्रयोजनादीति । आदिशब्दादभिधेयसंबन्धपरिग्रहः । प्रवृत्त्यै इदं प्रवृत्त्यर्थम् । अर्चटाभिप्रायेण श्लोकोपन्यासस्य प्रयोजनमाह । शास्त्रार्थेति । शास्त्रस्यार्थस्तस्य कथनं तस्य कालस्तस्मिन्नुपस्थितः प्रगुणीभूतो योऽसौ परस्तेन संभाव्यमाना येऽनुपन्यासहेतवस्तेषां निराकरणार्थम् । अर्चटभट्टो ह्येवं मन्यते । शास्त्रं दृष्वा शिष्यस्य शास्त्रश्रवणात्प्रागप्येवं संशयो जायते यदुत किमप्यत्र निरूपयिष्यते इत्यतः संशयनननामादिवाक्यमयुक्तम् किंतु शास्त्रानुपन्यासहेतुभिः प्रत्यवतिष्ठमानस्य परस्य तदुपन्यस्तहेत्वसिद्धतोद्भावनामिदमिति । अनुपन्यासहेतूनेव दर्शयति । तथा चेत्यादिना नारब्धव्यमित्यादि । परसंविदे आत्मसंविदे इति प्रयोजनसद्भावे हीत्थं. स्वभावहेतुप्रयोगः प्रवर्तते । यथ, सप्रयोजनमिदम् आरम्भणीयत्वात् तदन्यशिष्टप्रयुक्तघटादिसाधुशब्दवत्। प्रयोजनाभावे च व्यापकानुपलब्ध्या प्रयोगः स्यात् । तत्र निषेध्यस्य यद्व्यापकं तस्यानुपलब्धिापकानुपलब्धिरुच्यते। तथा हि अत्रारम्भणीयत्वं निषेध्यम् तस्य व्यापकं सप्रयोजनत्वम् तस्यानुपलब्धिः। तदत्रारम्भणीयत्वं व्याप्यम् प्रयोजनवत्तया व्यापिकया व्याप्तम् । ततः प्रयोजनवत्ता व्यापिका निवर्तमानारम्भणीयत्वं व्याप्यमादाय निवर्तते। ततोऽयं वृत्तिकृत्प्रदर्शितो व्यापकानुपलब्ध्याख्यः प्रयोगः स्यात्। तथेत्यादि । नारब्धव्यमिदमितीयमेव प्रतिज्ञा निरभिधेयत्वासंबद्धत्वहेत्वोरपि द्रष्टव्या। परीक्ष्यते धस्त्वनयेति परीक्षा शास्त्रमुच्यते। काकानां दन्तास्तेषां परीक्षा तक् । काकानां हि दन्ता एव न विद्यन्ते इत्यभिधेयाभावात्तद्वर्णनस्य श्वेतवर्तलत्वादिकस्याभिधायकं शास्त्रं निरभिधेयमुच्यते । एवमिह श्लोकाभावे साधनादीनामुपन्यासाभावात्तदङ्गानां पक्षादीनां भणनं निरभिधेयं स्यात् । तथेत्यादि । श्लोकाभावे साधनादीनामुपन्यासाभावात्पक्षादीनां विचारणमसंबद्धं प्रतिभासते । नन्वादौ यद्ययं श्लोकोऽभिधेयादीनां प्रतिपादनार्थमुपन्यस्यते कथं पुनरसौ तानि प्रदर्शयतीत्याह । अयं चेत्यादि। एतदेवमिति कोऽर्थः ।। अभिधेयप्रयोजने साक्षादर्शयति संवन्धं तु सामर्थ्येनेत्येतदित्यर्थः । लेशतः संक्षेपेण । एनं लेशतो व्याख्यायेत्युक्तम् । तत्र व्याख्याया आश्रयनिरूपणायाह । व्याख्या च पदवाक्यसंगतेति । पदवाक्ययोः सम्यमाता स्थितेति विग्रहः । तत्र सुप्तिङन्तं पदम् । पदसमुदायो वाक्यमुच्यते । तत्रापीति । व्याख्याया पदवाक्यश्रितत्वेऽपीत्यर्थः। पदार्थगमनिका । पदानामर्थस्तस्य गमनिकेति । तत्र गम्यते ज्ञायतेऽर्थो यस्मात्तद्गमनं व्याख्यानं तदेव गमनिका । स्वार्थे कनि रूपम्।न्यायादनपेता न्याय्या। अनपेतेत्यर्थे यः। इति पदानीति । अत्र श्लोके द्वादश पदानीत्यर्थः । सिद्धिति वाक्येन विधेर्वा निपातनात् साधनशब्दः साध्यत इत्याचष्टे । पक्षादिवचनानां जातं समूहः । अथ कम्मिविषये एतत्प्रयुज्यत इत्याह । विषयश्चेति । अथ दुष्टिरिति वाक्ये इनोऽभावादादेशाप्राप्तौ दूपणमिति न सिध्यति । उच्यते । निपातनाद्भविष्यतीति । साधनदोषा उद्भाव्यन्ते प्रकटीक्रियन्ते यस्तानि तथा । तानि च तानि वचनानि च तेषां जातमिति विग्रहः । किंचित्साम्येनेति ।