________________
पार्श्वदेवकृता न्यायप्रवेशत्तिपञ्जिका ।
+++ प्रवर्तमान इष्टदेवतानमस्कारार्थ श्रोतृजनप्रवृत्तये शास्त्रस्याभिधेयादिप्रदर्शनार्थ च श्लोकद्वयं चकार । सम्यगित्यादि । रचयामि विदधामि करोमीति यावत् । अहमित्यात्मनिर्देशे । कामित्याह । न्यायप्रवेशकव्याख्याम् । तत्र नितरामीयन्ते गम्यन्ते गत्यर्थानां ज्ञानार्थत्वात् ज्ञाय. न्तेऽर्था अनित्यत्वास्तित्वादयोऽनेनेति न्यायः । तर्कमार्गः । इण्धातोर्निपूर्वस्य परिन्योनwणोद्यताभ्रेषयोरिति वचनात्करणे घञ् । न्याये प्रवेशयति तदभिज्ञं करोति शिष्यं यच्छास्त्रं श्रयमाणं तन्न्यायप्रवेशकम् । तस्य व्याख्याम् । विशेषेणाख्यायते सूत्रमनयति व्याख्या वृत्तिग्रन्थः यद्वा विशेषेण ख्यानं व्याख्या विवरणमित्यर्थः ताम् । किंविशिष्टाम् ? । स्फुटार्थाम् । प्रकटाभिधेयाम् । किं कृत्वा ।। प्रणिपत्य । मनोवाक्कार्यनमस्कृत्य । कम् ? । जिनेश्वरम् । रागादिजेतृत्वाजिनः । इष्ट नरामरादिविहितं पूजादिकमैश्वर्यमनुभवतीत्येवंशील ईश्वरः। ततो जिनश्चासावीश्वरश्च जिनेश्वरः तम् । कीदृशं तम् ? । वक्तारम् । प्रतिपादकम् । कस्य ? । न्यायस्य । कथम् ? । सम्यक् । यथावस्थितस्वरूपेण । यद्वा सम्यक्चासौ न्यायश्च सम्यगन्याय इति समस्तं द्रष्टव्यम् ॥ तदनेन जैनमतानुसारिणामभिप्रायेण चत्वारोऽतिशया वाच्याः। यथा अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति । तत्र सम्यगित्यनेन ज्ञानातिशयः सूचितः । सम्यम्ज्ञानं विना यथावस्थितवस्तस्वरूपोपलम्भानपपत्तेः । वक्तारमित्यनेन च वचनातिशयोऽभिहितः । वक्तृत्वं विनाऽशेषवस्तूपलम्भेऽपि वस्तुतत्त्वप्रतिपादनानुपपत्तेः । जिन इत्यनेन त्वपायापगमातिशयः । रागाद्युच्छेदनिबन्धनतया निनशब्दप्रवृत्तेः । ईश्वरमित्यनेन तु पूजातिशयः । सम्यग्ज्ञानाद्यतिशयोपेतस्यामरादिपूज्यत्वसंभवाभिधाने च प्रयोजनं न प्रेक्षामहे । यतो यः प्रामाणिकः स प्रमाणात्प्रवर्तते । न चादिवाक्यप्रभवमभिधेयादिज्ञानं प्रमाणम् । अनक्षजत्वेन प्रत्यक्षत्वायोगात् । नाप्यनुमानं लिङ्गलिङ्गिनोरविनाभावनिश्चयेन तत्प्रवृत्तेरभ्युपगमात् । न चाभिधेयाद्यभिधाने किंचन लिङ्गमुत्पश्यामः । न चादिवाक्यं स्वत एवार्थ मभिदधच्छब्दरूपत्वाच्छाब्दं प्रमाणमिति वाच्यम् । शब्दस्य बाह्येऽर्थे प्रतिबाधासंभवेनाभिधेयाद्यभिधाने प्रामाण्यायोगात् । अतोऽभिधेयाद्यभिधानार्थ न युक्तोऽस्योपन्यास इति । उच्यत इत्यादि। आचार्यः पुनरेवं मन्यते । अभिधेयादीनामादिवाक्यस्याप्रमाणकत्वादनिश्चितावपि संशय उत्पद्यते श्लोकश्रवणे सति संशयाच प्रवृत्तिर्भवतीत्यतोऽभिधेयादिविषयसंशयोत्पादनार्थ श्लोक उच्यते । यतोऽर्थसंशयोऽपि प्रवृत्य दृष्टमनर्थसंशयोऽपि निवृत्त्यङ्गमिति धर्मोत्तरो मन्यते । अतः संमुग्धतया तद्नुसारेणान्युत्पन्नमतीनाश्रित्योत्तरमुक्तम् । अथवाऽनभिज्ञस्य प्रश्नोऽयम् । वैयाकर