________________
म्या. म.१०८]
न्यायप्रवेशवासिन एतदेव व्याचष्टे । हेत्वामासो हि बहुप्रकार उक्तः अस्ति वादिभेदेन । तस्मात् हेत्वाभासात् यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानम् अव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञस्य भवति तदनुमानामासम् । इत्युक्तं प्रत्यक्षादिचतुष्टयम् ॥ इदानीमुक्तशेष दूषणमभिधातुकाम आह । साधनदोषोद्भावनानि दूषणानि । प्रमाणदोषप्रकटनानीत्यर्थः । बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञादिदोषाणां दूषणत्वात् । एतान्येव दशयीत । साधनदोषो न्यूनत्वम् । सामान्येन विशेषमाह । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । प्रत्यक्षादिविरुद्धा प्रतिज्ञेत्येवमादि। हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम् । असिद्यो हेतुरित्येवमादि । एवं दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम्। तस्योद्भावनमिति। तस्य प्रत्यक्षविरुद्धहेत्वादेःप्रकाशनं पाश्निकप्रत्यायनं न तद्भाचनमात्रमेव ।दूषणमिति सामान्येन दूषणजात्यनति
क्रमादेकवचनमिति। उक्तं दूषणम् ॥ अधुना दूषणाभासमाह ।अभूतसाधनदोषो. १२ द्भावनानि दूषणाभासानि । अभूतमविद्यमानमेव तद्यतः साधनदोषं सामा
न्येनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातिदूषणामासानि । एतदेव दर्शयति । संपूर्णे साधने अवयवे न्यूनत्ववचनम् । न्यूनमिदमित्येवंभूतम् । अदुष्टपक्षे पक्षदोपवचनम् इत्यादि निगदसिद्धम् । यावद् एतानि दूषणाभासानि किम् । इत्यत आह । नोभिः परपक्षो दूष्यते । कुतः। निरवद्यत्वात्परपक्षस्य । इत्युपरम्यते शास्त्रकरणात् ॥
शास्त्रपरिसमामा तत्स्वरूपप्रतिपादनायैवाह । पदार्थमात्रमित्यादि । पदार्थमात्रमिति साधनादिपदोद्देशमात्रम् । आख्यातं कथितम् । आदौ २० प्रथमम् । दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्धयर्थम् । यात्र युक्तिरन्वयव्यतिरेकलक्षणा । अयुक्तिर्वा असिद्धादिभेदा । सान्यत्र प्रमाणसमुच्चयादौ । सुविचारिता प्रपश्चन निरूपितेत्यर्थः ।
न्यायप्रवेश यद्याख्यायावाप्तमिह मया पुण्यम् । न्यायाधिगमसुखदं संलभता भव्यो जनस्तेन । समाता चेयं शिष्यहिता नाम.न्यायमवेशकटीका।।
कृतिरियं हरिभद्रसूरेः॥