________________
(३६)
हरिभद्रसूरिकृता- [न्या. म. पृ०७ नार्थसाक्षात्कारित्वग्रहणान्मनोविज्ञानादेरपि तदव्यभिचारात्संगृहीतमेव तन्मानसम्। लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः । इति कृतं प्रसकेन । गमनिकामाप्रमेतत् ॥ अनुमानमित्यादि। अनुमितिरनुमानम्।तश्च लिलादर्थदर्शनमालिसंपुननिरूपमुक्तम् । पक्षधर्मत्वादि । तस्मात्रिरूपालिकाद्यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते किंविशिष्टम् १ अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात् तदनुमानमिति । उदाहरणद्वयं तु वस्तुसाधनकार्यस्वभावाख्यहेतुद्वयख्याफ्नार्थम् । अधुना फलमाह । उभयत्रेत्यादि । उभत्र प्रत्यक्षेऽनुमाने च। तदेव ज्ञानं प्रत्यक्षानुमानलक्षणम्। फलं कार्यम् । कुतः।अधिगमरूपत्वात्। अधिगमः परिच्छेदस्तद्रूपत्वात् । तथाहि परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाहते अन्यज्ज्ञानं फलम् । भिन्नाधिकरणत्वात् । इत्यत्र बहु वक्तव्यम् अलं प्रसङ्गेन। सर्वथा न प्रत्यक्षानुमानाभ्यामन्यविभिन्नं फलमस्तीति । आह । यद्येवं प्रमाणाभावप्रसङ्गः। तद्भावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात् । प्रमाणाभावे च तत्फलस्याप्यभावः इति । तत्र प्रमाणाभावनिराचिकीर्षयाऽऽह । सव्यापारवख्याते प्रमाणत्वमिति सह व्यापारेण विषयग्रहणलक्षणेन वर्तत इति सव्यापारम् । प्रमाणमिति
गम्यते । सव्यापारमस्या विद्यत इति सव्यापारवती । ख्यातिरिति १६ गम्यते । सव्यापारवती चासौ ख्यातिश्च सव्यापारवरख्यातिः प्रतीतिः । तस्याः
सव्यापारवत्याः ख्यातेः प्रमाणत्वमिति । एतदुक्तं भवति । विषयाकारं ज्ञानमुत्पधमानं विषयं गृहदेवोत्पद्यते इति प्रतीतेः ग्राहकाकारस्य प्रमाणतेति । अन्ये तु संश्वासौ व्यापारः सद्व्यापारः प्रमाणव्यवस्थाकारित्वात्सभित्युच्यते सोऽस्या विद्यत इति सद्यापारवती शेषं पूर्ववत् व्याचक्षते । इत्युक्ते प्रत्यक्षानुमाने ।। अधुना प्रत्यक्षाभासमाह । कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । एतदेव ग्रहणवाक्यं न्याचिख्यासुराह । यज्ज्ञानं घटः पट इति वा विकल्पयतः शन्दारोपित
मुत्पद्यते । अर्थान्तरे सामान्यलक्षणे । तदर्थस्वलक्षणाविषयत्वात् । सामान्य२४ लक्षणविषयत्वादित्यर्थः । उक्तं प्रत्यक्षाभासम् ॥ सांप्रतमनुमानाभासमाह ।
हेत्वाभासपूर्वकं हेत्वाभासनिमिचं ज्ञानमनुमानाभासम् । व्यभिचारात् ।