________________
न्या. प्र. १०७]
न्यायप्रवेशवृत्तिः इत्यनेन संख्यानियममाह । तथाहि बौद्धानां द्वे एव प्रमाणे प्रत्यक्षानुमाने । शेषप्रमाणानामत्रैवान्तर्भावात् । अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यते। अधुना प्रत्यक्षनिरूपणायाह । तत्र प्रत्यक्षमित्यादि । तत्रेति निर्धारणार्थः । प्रत्यक्षमिति लक्ष्यनिर्देशः । कल्पनापोढमिति लक्षणम् । अयं लक्ष्यलक्षणपविभागः । तत्र प्रतिगतमक्षं प्रत्यक्षम् । कल्पनापोढमिति । कल्पना वक्ष्यमाणलक्षणा सा अपोढा अपेता यस्मात् तत् कल्पनापोढम् । समासाक्षेपपरिहारौ पूर्ववत् । कल्पनयाऽपोर्ट कल्पनाया वाऽपोढं कल्पनापोढम् । यत् इति तत्स्वरूपनिर्देशः । एवंभूतं चार्थे स्वलक्षणमपि भवति । आह । ज्ञानं संवेदनम् । तच्च निर्विषयमपि भवति अत आह अर्थे विषये । स च द्विधा स्वलक्षणसामान्यलक्षणभेदात् । अत आह । रूपादौ स्वलक्षणे इत्यर्थः ।
इह यदुक्तं कल्पनापोढमिति तत्स्वरूपाभिधानत एव व्याचष्टे नामजात्यादिक१२ ल्पनारहितम् । तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् । तत्र नामकल्पना यथा
डित्य इति । जातिकल्पना यथा गौरिति । आदिशब्देन गुणक्रियाद्रव्यपरिग्रहः । . तत्र गुणकल्पना शुक्ल इति । क्रियाकल्पना पाचक इति । द्रव्यकल्पना
दण्डीति । आभिः कल्पनाभी रहितं शब्दरहितम् । स्वलक्षणहेतुत्वात् । उक्तं च । १६ न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन्मतिभासमाने तेऽपि प्रतिभासे
रनित्यादि । तदक्षमित्यादि । तदित्यनेन यनिर्दिष्टस्य परामर्शः । अक्षाणी. न्द्रियाणि । ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षम् । आह ।
यथेन्द्रियसामर्थ्याज्ञानमुत्पद्यते तथा विषयसामर्थ्यादपि तत्कस्मादिन्द्रियेणैव २० व्यपदेशो न विषयेणेति ? । अत्रोच्यते । असाधारणत्वादिन्द्रियस्य साधारण
त्वाचार्यस्यति । तथा हि । इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधारणम् । अर्थस्तु . मनोविज्ञानस्यापीति साधारणः । असाधारणेन च लोके व्यपदेशपचिर्यथा भेरी
शब्दो यवाकर इति । उक्तं च भदन्तेन । असाधारणहेतुत्वादस्तयपदिश्यते २४ इत्यादि । आह । मनोविज्ञानाधपि प्रत्यक्षमित्युक्तं न च तदनेन संग्रहीतमिति कयं
च्यापिता लक्षणस्य । उच्यते । कल्पनापोटं यतज्ज्ञानमर्ये रूपादौ इत्यने