________________
(३४) हरिभद्रसूरिकृता
[न्या. प्र. पृ०७ वैधर्म्यदृष्टान्तस्तु कर्म । तच्च उत्क्षेपणादि गृह्यते । तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम् । अनित्यत्वात्कर्मणः ।साधनधों हेतुः । तमेव दर्शयति अमूर्तत्वमिति। तन्न व्यावृत्तम्। अमूर्तत्वात्कर्मण इति ॥उभयाव्यावृत्तःआकाशवदिति। नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत् । वैधHदृष्टान्तस्त्वाकाशमिति । ततो हि आकाशात् । न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वम् । कुतः ।। नित्यत्वादमूर्तत्वादाकाशस्येति ॥ अव्यतिरेक इत्यादि । अविद्यमानव्यतिरेकः अव्यतिरेकः अनिदर्शितव्यतिरेक इत्यर्थः । लक्षणमाह । यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते । यत्रेत्यभिधेयमाह । विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्त दृष्टमित्यादिलक्षणया। तद्विपक्षभावः साध्यसाधनविपक्षभावमात्रम् । निदर्श्यते प्रतिपाद्यते इति यावत् । दृष्टान्तमाह।
यथा घटेनित्यत्वं च मूर्तत्वं च दृष्टमिति । इत्थं ोकत्राभिधेयमात्राभिधाना१२ द्वैधाप्रतिपादनादापत्त्यापि गम्यते प्रतिपत्तिगौरवादिष्टार्थासाधकत्वमिति ॥
विपरीतव्यतिरेक इत्यादि । विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः । तमेव दर्शयति । यदनित्यमित्यादि । प्रस्तुतप्रयोग एव तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदेशयन् यदनित्यं तन्मूर्तं दृष्ट मिति वक्तव्ये यन्मूर्तं तदनित्यं दृष्टमिति ब्रवीति । आह । एवमपि को दोषः इति । उच्यते । अन्यत्र व्यभिचारः । तथा ह्यनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति । व्यतिरेको विद्युता व्यभिचारः।। निगमयन्नाह । एषामित्यादि । यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि । किं न साधनम् । आभासत्वादेव । किं तर्हि । साधनाभासमिति ।। उक्तं साधनाभासम् ॥
अधुना दूषणस्यावसरः । तच्चातिक्रम्य बहुतरवक्तव्यत्वात्मत्यक्षानुमाने तावदाह । आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे । प्रत्यक्ष २४ वक्ष्यमाणलक्षणम् अनुमानं च । असमासकरणं विभिन्न विषयज्ञापनार्थम् । स्वलक्षण
विषयमेव प्रत्यक्षम् । सामान्यलक्षणविषयमेवानुमानम् । च समुच्चये। वे एच प्रमाणे
२०