________________
न्या. प्र. पृ०६]
न्यायप्रवेशवृत्तिः हेतुरिति । उदाहरणमाह । यथा घटे कृतकत्वमनित्यं च दृष्टमिति । घटः कृतकत्वानित्यत्वयोराश्रय इति । एवं सति आश्रयायिभावमात्राभिधानादन्यत्र
व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः । विपरीतान्वय इत्यादि । विपरीतो ४ विपर्ययवृत्तिरन्वयोऽनुगमो यस्मिन् तथाविधः। उदाहरणमाह । यत्कृतकं तदनित्यं
दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति । एवं प्राक्साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति । आइ। एवमपि को दोषः ? इति । उच्यते । न्यायमुद्रा
व्यतिक्रमः । अन्यत्र व्याप्तिव्यभिचारात् । यथा ह्यनित्यः शब्दः प्रयत्नानन्तरी८ यकत्वादित्यत्र यद्यदनित्यं तत्तत्मयत्नानन्तरीयकम् । अनित्यानामपि विद्युदादीनाम
प्रयत्नानन्तरीयकत्वात् । इत्यलं प्रसङ्गेन । अयं साधर्म्यदृष्टान्ताभासः समाप्तः ॥ वैधयेणापि । न केवलं साधम्र्येणैव । किम् ? । दृष्टान्ताभासः । प्राङ्निरूपितशब्दार्थः। पश्चप्रकारः। तद्यथा साध्याव्यावृत्त इत्यादि । तत्र साध्यं प्रतीतं तदव्यावृत्तमस्मादिति साध्याव्यावृत्तः । आक्षेपपरिहारौ पूर्ववत् । एवं साधनोभयाव्यात्तयोरपि वक्तव्यम् । अव्यतिरेकादिशब्दार्थ तूदाहरणाधिकार एव वक्ष्यामः। स चावसरः प्राप्त एव ।। तत्र साध्याव्यावृत्तः यथा नित्यः शब्दोऽमूर्तत्वा
त्परमाणुवत् । यथेत्युदाहरणोपन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा। अमूर्तत्वादिति १६ हेतुः । वैधय॑दृष्टान्ताभासस्य प्रक्रान्तत्वात्साधर्म्यदृष्टान्तो नोक्तः । अभ्यूह्यश्चाकाशा
दिः । वैधय॑दृष्टान्तस्तु परमाणुः । अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते । यत उक्तम् । साध्याभावे हेतोरभाव एव कथ्यते इत्यादि । न
चायं तथेत्याह च । परमाणोर्हि सकाशात् । साधनधर्मों हेतुः । तमेव २० दर्शयति अमूर्तत्वमिति । व्यावृत्तं निवृत्तम् । कुतः ? । मूर्तत्वात्परमाणूनाम् ।
साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम् । कुतः ? । नित्यत्वात्परमाणूनाम् । आह । साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः इह साध्याव्यावृत्त इति किमर्थमुच्यते । तस्यान्वयप्रधानत्वात् । अन्वयस्य च साधनधर्मपुरःसरसाध्यधर्मो. २४ चारणरूपत्वात् । व्यतिरेकस्तु उभयव्यात्तिरूपः साध्याभावे च हेतोरभाव इति ।
अतः साध्यान्यावृत्तः । तथा साधनाव्यावृत्तः कर्मवत् । प्रयोगः पूर्ववदेव ।