SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (४४) न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र..११ थोऽवगत एव भवतीति भावः । वादिप्रतिवादिनोः पक्षपरिग्रहस्तस्य समर्थना तस्यां सहः समः । तदन्तर्गत इति । तयोर्वादिप्रतिवादिनोरन्तर्गतो हृदयान्तर्वर्ती साधयितुमिष्टोऽप्रतीतस्तेषामतः साधनवचनेन तेषां प्रतिपाद्यते । तंत्र वादकाले द्वयोर्मध्येऽप्रवाददायी स वादीत्युच्यते । यग्ध वायुक्तमन्द्य तदुक्तार्थदूषणाथै पश्चाद्वदति स प्रतिवादीत्युच्यते । यदि प्राश्निकाणामप्रतीतोऽर्थः संवृत्तस्तर्हि प्रतिपाद्यते । केषामिति प्रश्ने सत्याह । सामादित्यादि। अमतीतार्थप्रतिपादकत्वादिति । अप्रकाशार्थप्रतिपादकत्वादित्यर्थः । व्यतिरेको बीजादिरिति । प्रयोगो यथा । यत्पुनर्जनकं तत्पूर्वमविद्यमानार्थजनक दृष्टम् । यथा बीजमकरस्येति । प्रतिपबामित्यभ्युपगतम् । विशिष्टो विशेषितः । अत्राहेत्यादि । युनक्ति स्म युक्ता संगतेत्यर्थः । न युज्यते इति प्रसिद्धतेति शेषः । अन्यार्थात् यदि विशेषणमपि प्रसिद्धं गृह्यत इत्यर्थः तदा विवादाभावेन पक्षोफ्लक्षितहेतुदृष्टान्तवननोच्चारणस्य नैरर्थक्यमेव स्यात् । ततो विशेषणस्य प्रसिद्धता न युज्यत इति प्रेर्यार्थः । अभ्युपगमसिद्धान्तपरिग्रह इति । वादिना यहस्त्वनीकृत्य साधनमुखार्यते तदेव तस्य पक्ष इति । स्वयमित्यनेन गह्यत इति भावः । अथ विशेषणानि व्यवच्छेदकानि भवन्ति । ततश्चेह कस्य केन व्यवच्छेद इत्याह । इहेत्यादि । इह शास्त्रविचारे । लक्ष्यं लक्ष्यते विशेष्यतेऽनेनेति लक्षणं विशेषणमुच्यते । अप्रसिद्ध विशेष्यं यस्मिन्स तथा तस्य । तत्राप्रसिद्धविशेष्यो यथा । सांस्त्यस्य बौद्ध प्रति चेतन आत्मेति । अप्रसिद्धविशेषणस्येति । यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति । अप्रसिदोभयस्येति । यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति । स्वयमित्यादि । सिद्धान्तो हि चतुर्विधः प्रतिपाद्यते । तथा हि सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । तत्र सर्वतन्त्रसिद्धान्तो यथा । सन्ति प्रत्यक्षादीमि प्रमाणानि । द्रव्यादीनां प्रमेयाणां साधकानि । तथा आपो द्रवाश्चलो वायुरचाक्षुषस्त्वगिन्द्रियग्राह्यश्चेत्यादि सर्वशास्त्राभ्युपगतत्वात् सर्वतन्त्रसिद्धान्तः। प्रतितन्त्रसिद्धान्तः स उच्यते यः स्वतन्त्रे सिद्धो न च प्रतितन्त्रे । यथा सर्व नित्यं सांख्यानां सर्वमनित्यं बौद्धानां सर्व नित्यानित्यं जैनानामिति । अधिक्रियन्ते आक्षिप्यन्ते यस्मिनः सोऽधिकरणम् । अधिकरणमेव सिद्धान्तोऽधिकरणसिद्धान्तः । यस्मिन्वस्तुनि सिद्धे शेषं तदाश्रितमनुक्तमपि सामर्थ्यात्सिध्यति स इत्यर्थः । यथाऽत्मनो नित्यत्वे सिद्ध शरीरादन्यत्त्वसिद्धिरमूर्तत्वास्तित्वसिद्धिश्चेति । अभ्युपगमसिद्धान्तो नाम यद्वस्तु सिद्धान्तत्रयेणासिद्धमभ्युपगम्य स्वेच्छया साध्यते स प्रोच्यते । यथा शीतो हुतमुक् तृणाग्रे गजयर्थ खरे शृहमित्यादिक इति । एतदेवास्य लक्षणं वृत्तिकृदयाह । इहेत्यादि । एतेन च किं संपन्नमित्याह । ततश्चेति । ततश्च यदुक्तं वादिषु मुख्येन धर्मकीर्तिना तदपि संगतमेवेति योगः । तत्र च यद्यप्याह साधन क्वचिच्छास्त्रे स्थितस्तथापि तेन वादिना यो धर्मोऽनित्यत्वादिः साधयितुमिष्टः स एव साध्यो नेतर आकाशगुणत्वादिकः । वादी च क उच्यते । यस्तदा वादकाले साधनमाह । क सति स एव माध्यः । अभ्युपगमे सति । कस्य कर्मतापनस्य धर्मस्य। कीडशस्य अनेकस्याकाशगुणत्वसंयोग
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy