________________
म्या. प्र.क. १६]
पार्चदेवकता जत्वादेः । कस्मिन्धर्माभ्युपगमः ! । तस्मिन्धार्माण शब्दादौ । केन कर्ताऽभ्युपगमः । तच्छात्रकारण। यच्छावं तेन वादिनाऽभ्युपगतं तच्छास्त्रं तत्करोति यस्तेन । अथ किमित्यन्यधर्मसाध्यत्वसंभवः स्यात् ।। उच्यते । येन वादिना शास्त्रमभ्युपगतं तेन वादिना शास्त्रे धर्मः सर्व एवं साध्य इति । निषिध्यतेऽभ्युपगत एव साध्यो नेतर इति । ननु कथमेवमुच्यते । यावता न्यायमुद्रेयं यदुत शाने स्थित्वा वाद एव न कर्तव्यः । सत्यमहमहमिकया यद्यपि किश्चिच्छाखामभ्युपगतः सन्साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदं स्वयमिति पदमुक्तम् । अथ साध्यत्वेनेत्यस्य किं व्यवच्छेद्यमित्याहा । अनेन चेति । हेतुदृष्टान्ता इवाभासन्ते ये ते तथा।ततःसाध्यासाधकत्वात् । साध्याश्च हेतुदृष्टान्ताभासाश्चति विग्रहः । अयमर्थः । यद्यपि चाक्षुषत्वादिहेत्वाभासो हेतुस्थाने प्रयुक्तो वर्तते तथापि साध्यासाधकरवात्साध्य एवासौ परं यः पदार्थः साध्यत्वेन विषयीकृतः साधयाम्येनं हेतुत इत्येवंभूतयेच्छया स साध्यः साध्याभिप्रायेण निर्दिष्टः पक्षो भवति । तथा च सति हेतुदृष्टान्ताभासयोः साध्यासापकत्वेन साध्ययोरपि न पक्षव्यपदेशस्तयोः साधनाभिप्रायेण निर्देशात् । यदा तु हेतुदृष्टान्तयोः परासिद्धयोः साधनान्तरेण सिपाधयिषया निर्देशः क्रियते तदा प्रतिज्ञात्वमभ्युपगम्यत एव । तथा नित्यः शब्दः कृतकत्वादटवदित्युक्ते च कृतकत्वमसिद्धमित्याशङ्कय कृतकः शब्दः कारणान्वयव्यतिरेकानुविधायित्वावटक्त् । न चेदमप्यसिद्धम् । ताल्वादिकारणब्यापारे सत्येव शब्दस्यात्मलाभप्रतीतेः तदभावे चाप्रतीतेः चक्रादिव्यापारसद्भावासमावयोर्घटस्यात्मलामालाभप्रतीतिवदित्येवं वदतो हेतुरपि पक्षो भवतीति । तदत्र साधनोपन्यासापेक्षया यत्साध्यत्वेन निर्दिश्यते तत्सर्व पक्ष उच्यते । इच्छयाऽपि न्याप्तः पक्ष इति । अयमत्र भावायेः यद्यपि परायोनुमाने वचनोक्त एव पक्षो युक्तस्तथाऽपि वचनेनानुक्तोऽपि . पक्षो भवति सामर्योत्तत्वात्तस्य । तथा हि यत्राविवादेन साधनमुपन्यस्यते तचेद्विवादास्पदीभूतमनुक्तमपि साध्यं स्यात् । किमिदानी जगति किंचिनियतं साध्यं स्यादित्यनुक्तमपि परार्थानुमाने साध्यं दृष्टम् । न्यायबलात् सोऽत्र पक्ष एवोच्यते इप्सितइत्यनेनोक्तं भवति । तर्पदाहरणेनेच्छया व्याप्तः पक्षो यादृशो भवति तादृशो दर्श्यतामित्याह । इत्येतति । तत्र हि परार्था इत्युक्तेऽप्यसंहतपरार्था इति द्रष्टव्यम् । असंहतपरश्यात्मैवेत्यनुक्ताप्यात्माता साध्या । इत्येतत्तत्रैव प्रदर्शयिष्यते । तस्मात्स्थितमिदम् । वादिप्रतिवादिनोविवादास्पदे वादिना यत्साधयितुमिष्टं वस्तु तद्वचनेनोक्तमनुक्तं वा प्रस्तावगम्यं सर्व साध्यमित्युच्यते । अनेनेति समस्तलक्षणेनेत्यर्थः । धर्मविशिष्टधर्मिणः पक्षत्वेऽभिहितेऽनित्यः शब्द इत्यादिके समुदिते पक्षवाक्ये यत्पक्षतया न भवति तद्दर्शयन्नाह । ततश्रेति । धर्मस्य धर्मिणो वा यः स्व आत्मा तस्य तन्त्रमधीनं स्वतन्त्रमेकाकि सद्विशेषणविशेष्यभावनिरपेक्ष धर्मधर्मिरूपमुभयम् । न पक्ष इत्यर्थः । न तयोः संबन्ध इति । तयोर्मधर्मिणोराधाराधेयरूपस्तादाल्यादिरूपो वा यः संबन्धः सोऽपि न पक्ष इत्यर्थः । अयेह किमेतावता पक्षलक्षणं परिपूर्ण जातमाहोस्विदन्यदपि किमप्यपेक्षणीयमित्याह । इह चेत्यादि । इहेति पक्षलक्षणविचारे । लक्षणस्य