________________
(१६)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र.पू.१५ हि त्रयो दोषा भवन्ति । यथा अव्यामिरतिव्याप्तिरसंभवश्चेति । नन्वस्य वाक्यस्य सूत्ररूपस्य सतो यदि पातनिकादिद्वारेण व्याख्या विधीयते तर्हि वाक्यशेष इति पदस्य पाठो न युक्तः । अध्याहारो हि सामर्थ्यलभ्यस्यार्थस्य शब्देन संकीर्तनमुच्यते । स च यदि मुख्यतयैव शब्देन पठ्यते न तदा वाक्याध्याहारो भण्यते । अत्रोच्यते । किल साध्यत्वेनोप्सित, इत्येतत्पर्यन्तमेव पक्षलक्षणमुक्तं पूर्वाचार्यैः । एतच्च प्रत्यक्षाद्यविरुद्ध इत्यस्य सापेक्षम् । ततो वार्तिककृता परिपूर्णपक्षलक्षणार्थ वाक्यशेषोऽयमधीतः । ततश्च सवार्तिकं सूत्रं व्याख्यानयन्यथापठितमेवर्जुवार्तिकावयवं हरिभद्रसूरिाख्यातवान् । ततोऽस्य पातनिका वाक्यशेष इति । अस्य पर्यायप्रदानं चादुष्ट. मिति। सांप्रतमित्यादि । तत्र हेतुविचारे। स च स्वभावकार्यानुपलम्भाख्यस्त्रिप्रकारः । तत्र स्वभाव: स्वसत्तामात्रभाविनि साध्यधर्मे हेतुर्भवति यथा वृक्षोऽयं शिंशपात्वादिति । कार्य यथाऽभिरत्र धूमादिति । अनुपलम्भो यथा प्रदेशविशेषे क्वचिदटस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धरिति । एतेषु च द्वौ वस्तुसाधकौ । एकः प्रतिषेधहेतुर्विज्ञेयः । अमीषामेते साधर्म्यप्रयोगा दर्शितास्तथा स्वभावकार्यहेत्वाधर्म्यप्रयोगौ व्यापकानुपलब्धिकारणानुपलब्धिरूपौ वेदितव्यौ । यथा नात्र शिंशपा वृक्षाभावात् । नात्र धूमो पन्हयभावादिति । तथाहि वृक्षाभावे न भवत्येव शिशपा अन्यभावे न भवत्येव धूम इत्यनयोरपि वैधर्म्यप्रयोगयोापककारणानुपलब्धिप्रयोगोक्त एवार्थो नापरः कश्चिदिति । अनुपलब्धेस्तु वैधर्म्यप्रयोगो यथा । यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव यथा नीलादिविशेषः न चेहोपलब्धिलक्षणप्राप्तस्य घटस्योपलम्भ इति । अयं चैकैकोऽपि त्रिरूपो वेदितव्य इत्याह । स च त्रिरूप इति । स चेति हेतुः स्वभावादिः । नानात्वमिति नानाप्रकारत्वम् । किं पुनरिति । हेतोस्त्रैरूप्यं यदुक्तं तत्किमित्यर्थः । वितर्क उह उच्यते । तस्य धर्म इति । ध्रियतेऽवतिष्ठते धर्मिण्याधारे यः स धर्मः । उणादिको मः । पक्षशब्देन चात्रेत्यादि । अत्रेति पक्षधर्मत्वे ज्ञातव्ये । इह यद्यपि धर्मधर्मिसमुदाय एव पक्षो रूढस्तथापि पक्षधर्मप्रतिपत्तिकाले धर्मी पक्षः यत्कृतकं तदनित्यमिति व्याप्तिग्रहणकालेऽनित्यत्वं धर्मः पक्षः पक्षधर्मोपसंहारकाले तु धर्मधर्मिलक्षणः समुदायः पक्ष इति द्रष्टव्यम् । अथेदं कस्मालभ्यते ! । उच्यते । न्यायबलात् । तथाहि । यदि हेतुलक्षणकाले धर्मधर्मिसमुदायोऽनुमेयो गह्यते तदा समुदायः परं प्रत्यसिद्धः । अनित्यत्ववह्यादिविशिष्टस्य शब्दपर्वतनितम्बादेः । कृतकत्वमादिप्रतीतिकाले बोद्धुमशक्यत्वात्त्वसिद्धो हेतुः स्यादिति कथं समुदाये हेतोरेकं रूपं स्यात् । अथ प्रसिद्धस्तदा हेतोरुपादानं व्यर्थ स्यात् । तस्मात्पक्षधर्मत्वप्रतीतिकाले न समुदायोऽनुमेयः । तर्हि पक्षधर्मत्वे ज्ञातव्ये धर्ममात्रं पक्षोऽस्तु । तथापि कथं धर्मी पक्षो लभ्यते ।। उच्यते । न्यायादेव । तथाहि धर्मे धर्मो न संभवति । अपि तु धर्मिण एव धर्मसंभवः । संभवे वा हेत्पादानं न्यथं स्यात् । पक्षधर्मत्वातीतावेद साध्यधर्मावगतिप्रसङ्गात्। तस्माद्यद्यपि पक्षशब्देन धर्मधर्मिसमुदाय उच्यते तथापि हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते । कयं पुनः समुदायवचनः सन्पक्षशब्दो धर्मिमात्रे वर्तते इति चेदाह । अवयवेत्यादि । पक्षाल्यस्य हि समुदायस्य द्वाक्वयवौ धर्मी धर्मश्च । तत्र हेतुलक्षणे निश्चेतव्ये धर्मिमात्रे समुदायो