________________
न्या. प्र. पृ०१७] पार्चदेवकृता
(४७) पचारात्पक्षशब्दो वर्तते । मुख्यपक्षकदेशत्वं चात्र समुदायोपचारनिमित्तमिति न साध्यधर्मिणोऽनित्यत्वपक्षत्वप्रसङ्गः । तथा व्याप्तिग्रहणकाले धर्मी पक्षो न भवति यतो दृष्टान्ते धर्मिणा व्याप्तो हेतुने सिद्धोऽत एव धर्मधर्मिसमुदायोऽपि व्याप्तिग्रहणकाले न पक्षो धर्ममात्रं तु युक्तम् । धर्मेणैव दृष्टान्ते हेतुाप्तो यतः साध्यप्रतीतिकालेऽपि धर्ममात्रं न पक्षोऽपि तु समुदायः । निराधारस्य धर्मस्यासिद्धेः । नापि धर्मिमात्रं पक्षः । धर्मिणः पक्षत्वेन पक्षधर्मग्रहणकाल एव सिद्धत्वात् । ततः साध्यप्रतीतिकाले धर्मधर्मिसमुदाय एव पक्षो युक्तः। तदुक्तम्-ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते। व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् । इति स्थितम् ॥ ननु सपक्षे सत्त्वमस्तित्वमितीदं हेतो रूपं कथं संगच्छते । यतो न यादृशवह्निजन्यस्य धूमस्य साध्यधर्मिणि सद्भावस्तादृशवह्निजन्यस्यैव महानसेऽपि । अनीदृशस्यापि संभवात् इत्याह सामान्येन भाव इति । सपक्षेऽविशेषणो वा धूमव्याप्त्या धममात्रेऽग्निसद्भावः सत्त्वमिह हेतोर्द्वितीयं रूपमित्यर्थः । स च विशेषणार्थ इति । विशेषयतीति विशेषणं तदेवार्थो यस्येति स तथा । पूर्वोक्तरूपादस्य रूपस्य विभिन्नत्वप्रदर्शनार्थ इत्यर्थः । अत्रैवेति विपक्षे एव । तर्हि किं सपक्ष एकदेशेनापि वर्तमान सत्त्वं गमकम् ! उतस्वित्सामस्त्येन वर्तमानम् । इस्याह । सपक्षेत्विति। न केवलं सामस्त्येनैकदेशेनापीत्यपेरर्थः । इतोऽपि किं सिद्धमित्याह । तथा चेति । एकान्तेन एकान्ततः सर्वथैवेत्यर्थः । न केवलं कृतकत्वादयः सामस्त्यसपक्षव्यापिन इत्यपेरर्थः । आवेद्यते स्म आवेदितम् । निगदः पाठ उच्यते । निर्वचनं तु प्रत्युत्तरम् । इत्यं सूत्राक्षरयोजना कार्या । कः सपक्षस्तत्र ! । समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थो घटादिः पक्षण सह शब्दादिना स घटादिः पक्ष उपचारात् । दृष्टान्तलक्षणोऽये इह पक्षशब्दवाच्यस्ततः समानः पक्षः सपक्षः । समानस्य सकारः । अत्र स्यादेतत् । किं तत्पक्षसपक्षयोः सामान्य येन समानः सपक्ष: पक्षणेत्याह । साध्यधर्मसामान्येन । तत्र साध्यश्वासावसिद्धत्वाद्धर्मश्च पराश्रितत्वादिति विशेषणसमासः । ननु साध्यशब्दो धर्मधर्मिसमुदायवृत्तिस्तत्कथं साध्यश्च धर्मश्चेति समस्यते इत्याह । इहेत्यादि । अयमर्थ उपचाराद्धर्ममात्रे धर्मिणि वा वर्तते साध्यशब्दस्ततो यदा धर्ममात्रे वर्तते तदा कर्मधारयः कार्यः । यदा तु धर्मिणि वर्तते तदातु साध्यस्य धर्म इति समसनीयम् । यदुक्तम्।समुदायस्य साध्यत्वाद्धर्ममात्रेऽथ धर्मिणि । अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते ॥ अत एवाग्रे षष्ठीतत्पुरुषमपि वक्ष्यति । अथवोपचारवृत्त्येत्यादिना तत्र सममित्यादि । अस्येति घटादेः पक्षेण सह शब्दादिनेति समानः । अर्थो घटादिरिति । वस्तुसत्तासमाविष्टमाभिधेयमर्थ इह गृह्यते न तु वचनमात्रमिति । न त्वभिधेयसत्तासमाविष्टमभिधेयं खरविषाणादिकमित्यर्थः । अथो. पचाराभावे मुख्यतः साध्यशब्दवाच्यं किमित्याह । अनुपचरितं स्विति । असमारोपितमित्यर्थः । ननु साध्यधर्मसामान्येनेत्यादिवाक्ये किमवधार्यते । उच्यते । साध्यधर्मसामान्येन सामान्यमेवेत्यवधार्य न तु साध्यधर्मसामान्येनैवेत्येवम् । यतो न स कश्चिदर्थोऽस्ति यः साध्यधर्मेणैव केवलेन समानः कल्पितव्यावृत्तवशात् सर्वस्यानेकधर्मयोगात् । साध्यानित्यत्वसमानत्वादिति । शन्दे साध्यं यदनित्यत्वं तेन समानत्वान्टादेरप्यनित्यत्वविशिष्टता स्यात् ।