________________
( ४८ )
न्यायप्रवेशवृत्तिपत्रिका
[ न्या. प्र. पृ० १९
उभयत्रापि दृष्टान्ते साध्यधर्मिणि चानित्यत्वसद्भावात्समानतेति । यस्मिन्नर्थे इति । आकाशादावित्यर्थः । यदि विपक्षे साध्यं नास्ति तर्हि किं तत्र स धनमस्तीत्याह । इह चेत्यादि । तत्र हीत्यादि । तत्र हि विपक्षे आकाशादावनित्यत्वाभावात्कृतकत्वाभावः । व्यापकं निर्तमानं व्याप्यमादाय निवर्तते इति न्यायात् । सांप्रतमित्यादि । तत्रेति निर्धारणे । तत्र तेषु पक्षादिषु मध्ये पक्षधर्मत्वादिगुणो हेतोः स्वरूपं निर्धार्यत इत्यर्थः । कृतक वमित्यत्र संज्ञायां कन् । संज्ञामेवाह । अपेक्षितेत्यादि । अपेक्षितः परेषां कुलालादीनां व्यापारो येन घटादिना स तथा । भावो घटादिः । स्वभावनिष्पतौ स्वसत्तानिष्पत्तावित्यर्थः । द्वितीयेत्यादि । सपक्षस्यैकदेशे वृत्तिरस्य स तथा । यतोऽनित्यत्वविशिष्टेषु सर्वेषु धर्मिषु न वर्तते व्याप्त्या प्रयत्नानन्तरीयकमपि तु केषुचिद्धटादिषु न विद्युदादिष्वपि । अथ च साध्यानित्यत्वसमानत्वाद्विद्युदादिरपि सपक्षः । अयं चार्थः । विपक्षे चासत्त्वमेवेत्यत्रैवकारवशात्साधितोऽपि ... . धर्मः पुनरपि साध्यते । यदुक्तं त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्च.. साध्यप्रयत्नानन्तरीयकत्ववशात् तदा विशिष्टशब्द पक्षीकृत्य प्रयमानन्तरीयकत्वसाधनमुपन्य...
2004 S02E
W
.. त्वं
.... ....
. शब्देनात्र परिग्रहे प्रयत्नानन्तरीयकत्वमव्यापकासिद्धं स्यात् । न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्ति घटवेण्वादौ वातादपि शब्दप्रादुर्भावात् । अयं च हेतुः किमिति । अयं हेतुः स्वभावकार्यादिः । किंरूपः स हेतुर्भवति । तत्राह पक्षधर्म एवेति । न तु पक्षस्यैव धर्म इति । इत्थं ह्यवधारणे क्रियमाणे सपक्षविपक्षयोर्वृत्तेर्व्यवच्छिद्यमानतया सपक्षे सत्त्वं प्राप्यते । ततः पक्षस्यैव धर्मः । स तु श्रावणत्वमेव हेतुः स्यात् । अकृतकत्वादयस्तेषां सपक्षेऽपि भावात्ततः पक्षधर्म एवेत्यवधार्यम् । कुत इत्याह । अयोगेत्यादि । अयोगोऽसंबन्धस्तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमेवार्थो यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रयोगव्यवच्छेद एव न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति । अत्र हि चैत्रे धनुर्धरत्वं संदिह्यते किमस्ति नास्ति वा ततश्चैत्रो धनुर्धर एवेति । चैत्रस्थ धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमाशङ्कोपस्थापितं श्रोतुर्निराकरोतीत्यत्रायोगव्यवच्छेद एवेति । तर्हि पक्षधर्म एवेत्यनेन किं व्यावर्तितमित्याह । अनेन चेति । यतोऽपक्षधर्मो हेतुरसिद्ध उच्यतेऽतः पक्षधर्मो हेतुर्भवन्नपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । असाधारणस्य चेति । ननु नित्यः शब्दः श्रावणत्वादित्ययमसाधारणो हेतुः पक्षस्य शब्दान्यस्य धर्मिणो धर्म एव प्रवर्तते तत्कथमस्यानेनावधारणेन व्यावृत्तिः स्यादित्यत्रोच्यते । इह हि वक्ष्यमाणस्य हेतुरूपद्वयस्य संग्रहो यथा स्यादित्येवमर्थ पक्षधर्म एवेत्यवधारणम योगव्यवमच्छेदमात्रफलमेव गृहीतम् । ततः सपक्षवृत्तिमान्विपक्षवृत्तिमानेव च हेतुर्यदि पक्षधर्मो भवती स्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षपक्षयोः प्रवृत्तिनिवृत्ती विद्येते । पक्षधर्मत्वं मुक्त्वा । अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मत्वे सत्यपि पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुत्वनिरासो भवतीति । अन्ये विपक्षेण सह योगस्तस्य व्यवच्छेद इति विग्रहः । पार्थ एव