________________
न्या. प्र. पू. १८] पार्श्वदेवकृता
(४९) धनुर्धर इत्यत्र पार्थे धनुर्धरत्वं सिद्धमेवेति नायोगाशवा । तादृशं तु सातिशयं किमन्यत्राप्यस्ति नास्ति वेत्यत्ययोगाशङ्कायां श्रोतुर्यदा पार्थ एव धनुर्धर इत्युच्यते तदाऽन्ययोगव्यवच्छेदो भवतीति । नवानामपीति । यतोऽनैकान्तिकानामुभयगामित्वात्तेष्ववधारणार्थ एव न घटते । विरुद्धेषु च विपक्ष एव भावात्समस्तपदमेव न घटते इति भावः । तद्वयतिरेकेणेति । सपक्षमन्तरेण तद्धर्मत्वानुपपत्तिः पक्षधर्मत्वाघटनम् । अनवधृतेति । अवधारणविधेरिति शेषः । अयमर्थः । अनवधुतस्यार्थस्थावधारणं व्यवच्छेदकं स्यात् न त्ववधूतस्य । पक्षधर्म एवेति च प्रागप्यस्मादवधारणादवधारितमेवेति कथमनेन तस्य बाधा स्यात् । । तृतीयमवधारणमिति । अवधारणपदं तृतीयं किमर्थम् ? । यतः सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति । गम्यत एवेति भावः । प्रयोगोपदर्शनार्थमिति । वादकालप्रयोगविधीपनार्थमित्यर्थः । उक्तं चेत्यादि । कथं नु नाम स्याद्वितीयस्याक्षेपकम । केनचित्प्रकारेण भवतु द्वितीयसूचकम् । यथा साधयेणोक्ते वैधय॑स्याक्षेपकं स्याद्वैधम्र्येण तु साधर्म्यस्येति । द्वितीयाक्षेपकं चैक रूपमुक्तं तदा स्याद्यद्यन्वयो व्यतिरेको वा साध्येन सह तादात्म्यतदुत्पत्तिप्रतिबन्धवतो हेतोः प्रयुक्तः स्यात् न तु दर्शनादर्शननिमित्त कस्येत्यतः प्रतिबन्धवद्धेतुप्रयोगख्यापनार्थ द्वयोरुपादानम् । प्रतिबन्धवतश्च हेतोरन्वयव्यतिरेकयो; प्रयोगद्वयोरेक एव प्रयोक्तव्यो न द्वाविति । यत एकेनैव साध्याविनामावनियमवता प्रयुक्तेनापरस्य गतेर्न द्वयोोगो युगपत्कर्तुं युक्तः । तस्माद्वयोर्लक्षणवाक्ययोरुपादानम् । साध्याविनाभावनियमवत एकस्यैव प्रयोगो यथा स्यादिति स्थितम् । अत एवाह । प्रभूतमित्यादि । दुःखादिपरिग्रह इति । इह हि सौगतमले दुःखसमुदयमार्गनिरोधा इति चत्वार्यार्यसत्यानि प्रतिपादितानि । तत्र च दुःखसत्यं चतुर्भिः प्रकारैर्निगदितं यथाऽनित्यतो दुःखतोऽनात्मनः शन्यतश्वेति । तदिहानित्याः संसारिणः स्कन्धा इत्यनित्यत्वे साध्ये कृतकत्वप्रयत्नानन्तरीयकत्वे हेतू तावत्स्तः । तत्रत्यादिग्रहणाच दुःखं संसारिणः स्कन्धास्तथा निरात्मानो निरवयविनः संसारिणः स्कन्धा इत्यादौ दुःखादिकेऽपि साध्ये एतौ हेतु स्त इति । एतच्च धर्मोत्तरटिप्पनके सूचीमात्रसंदर्शनतो गमनिकामात्रं किंचिदुक्तम् । अन्यथा वा अभ्याम् । दृष्टमर्थमन्तं नयतीति । एतदेव वाक्यं व्याचष्टे प्रमाणेत्यादिना । प्रमाणेन प्रत्यक्षादिना उपलब्धं ज्ञातम् । विप्रतिपत्ताविति । एको धूमादिकं लिङ्गमवलोक्य प्राह वह्निरत्रास्ति अपरस्तु मूढो विस्मृतसंबन्धः प्राह कथमेतदित्येवंरूपा विप्रतिपत्तिः । तस्यां सत्यां महानसादिः साध्यसाधनयोाहिं स्मारयति । यतो महानसादौ प्रत्यक्षानुपलम्भाभ्यां साध्यसाधनयोरविनाभावो गृहीतः स च विस्मृतः सन् तदुपन्यासेन स्मार्यत इति । साधम्र्येणेत्यादि । दृष्टान्तधर्मिणः साध्यधर्मिणा सह साध्यसाधनसद्भावकृतं सादृश्यं साधर्म्यमुच्यते । असादृश्यं च साध्यहेतुकृतं वैध→मिति । योति । अभिधेये इति । प्रोच्यमाने घटादौ । अयं सूत्रार्थः । हेतोरस्तित्वं सद्भावः। ख्याप्यते साध्या, वितो हेतुः प्रदर्श्यते । यत्र सपक्ष एवं साध्यानित्यत्वसमानार्थे घटादावेव । स घटादिः साधर्म्य