________________
(५०)
न्यायप्रवेशवृत्तिपत्रिका ।
[ न्या. प्र. वृ. १०
I
दृष्टान्तः । यत्कृतकमित्यादि । यत्कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमत्र । वैधर्म्येणापीति । अपि पुनरर्थे । वैधर्म्येण पुनः स दृष्टान्त इति शेषः । यत्रेत्याकाशजलाशयाद। दृष्टान्ते । यनित्यमित्यादि । कृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिह । तदिह स्थितमिदम् । साध्यान्वितस्य हेतोर्व्याप्तिसंदर्शनार्थः साधर्म्यदृष्टान्तो वक्तव्यः । प्रसिद्धव्याप्तिकस्य हेतोः साध्याभावे हेत्वभावप्रदर्शनाय वैधर्म्यदृष्टान्त इति । एतदेव चानयोर्दृष्टान्तयोः स्वरूपं नापरं किंचित् । अनित्यो न भवतीति । प्रसज्योऽयं नञ् । स च निषेधमात्रकृदिति । भावाभावोऽभाव इति । भावस्य वस्तुसत्ताया अभावो नाशो यथाऽभाववस्तुस्वरूप : सर्वसामर्थ्योपाख्याविरहलक्षण उच्यते शब्दतो न त्वभावो वस्तुभूतः कपालादिवस्तुरूपः सौगतमते कश्चिदस्ति । भिन्नसामग्रीवशेन कपालादिर्भिन्नवस्तु न उच्यते एवमिहापि न वस्तुसन्नित्यमकृतकं वाऽस्ति किंतु व्यावृत्तिमात्रमेव केवलमिति । दृष्टान्तेन प्रतिरूपो दाष्टन्तिकस्तस्मिन्नपि ॥
एवं विभिन्नप्रकरणेप्यवयवानां स्वरूपोपदर्शनेऽप्येकत्र तत्स्वरूपपरिज्ञानापेक्षया आह । एषामित्यादि । सपक्षेऽनुगमः साध्ययुक्तहेतोर्व्याप्तिस्तस्य वचनम् । कोऽर्थः ! | साध्यान्वितहेतुप्रदर्शनवाक्यम् । एतान्येव पक्षादीनां वचनानि । किमुच्यन्ते ! । अवयवः साधनमित्यर्थः । 1 कियन्तः ! | त्रयः । व्यवयवं साधनमित्यर्थः ॥
1
1
इहापीति । साधनाभासेऽपि । साधयितुमिष्ट इत्यनेन साध्यत्वेनेप्सित इतीदं लक्षणं गृहीतम् । अपिनात्र प्रसिद्धो धर्मीत्यादिकमपि पक्षलक्षणं संगृह्यते । अत एवाह । अपिशब्दात् तदन्यलक्षणयुक्तोऽपि तैर्विरुद्ध इतेि । तैः कर्तृभिर्विरुद्धो यस्यासाविति यस्य साधयितुमिष्टस्य धर्मिण इत्यादि । तेन प्रत्यक्षेण परिच्छिन्नो निश्चितस्तत्परिच्छिन्नः । शाले: कुडवः इति शालिकुडवस्तस्य न्यायस्तद्वत् । यथा कुडवेन परिच्छिन्नः शालिरपि कुडव उच्यते । एवमिहापि प्रत्यक्षपरिच्छिन्नो धर्मोऽपि श्रावणत्वाख्यः प्रत्यक्ष उच्यते । साध्येत्यादि । प्रत्यक्षेण प्रसिद्धो धर्मः श्रावणत्वाख्यः प्रत्यक्षप्रसिद्धधर्मस्तेन विरुद्धः प्रत्यक्षविरुद्धः । तत्रेति । तेषु प्रत्यक्षविरुद्धादिषु मध्ये श्रावण इति । श्रवणेन ग्राह्यः श्रावणो न श्रावणोऽश्रावणः श्रोत्रविज्ञानाप्रतिभासी । अयमिति श्रोत्रा ग्राह्यत्वलक्षणो धर्मः शब्दस्य तत्रैव धर्मिणि शब्दान्ये श्रावणत्वेन श्रावणविज्ञानप्रतिभासित्वेन विरुध्यते । श्रोत्रेन्द्रियविज्ञानेन शब्दस्य गृह्यमाणत्वादिति । आहेत्यादि । श्रावणत्वमित्ययं भावप्रत्ययवान्निर्देशः । भावश्च सत्ता । सा च सामान्यम् । तच प्रत्यक्षेण गृह्यते किल । प्रत्यक्षस्य हि स्वलक्षणमेव विषयोऽनुमानस्य च सामान्यमिति प्रेर्यार्थः । आचार्यस्तु मन्यते नात्र भावप्रत्ययः सत्तार्थभावमाश्रित्योत्पन्नः किंतु स्वभावार्थे । अत एवाह भावप्रत्ययेन तत्स्वरूपेत्यादि । तस्य श्रवणग्राह्यस्य शब्दस्य स्वरूपमात्रं स्वभावमात्रं तस्याभिधानात्प्रतिपादनात् । श्रावणत्वस्य यत्सामान्यलक्षणत्वं प्रत्ययवशेनोद्भाक्तिं तस्यानुपपत्तेरिति । आगमेत्यादि । आगम इह वैशेषिकमतव्यवस्थाकारीणि शास्त्राण्युच्यन्ते । तत्र यः किल वेद: सामा