________________
न्या. प्र. ७.२१] पाचवेवकृता
(५१) दिको पौरुषेयतया नित्यः कैश्चिदम्युपगम्यते तस्यापि पौरुषेयत्वेनैवानित्यस्य सतः प्रामाण्यं व्यवस्थाप्यते । अतस्तद्बाह्यस्येतरस्य शब्दस्य सुतरामनित्यत्वमित्यायातम् । तदेवोक्तेन गुढयन्नाह । बुद्धिमत्पूर्वेति । बुद्धिमानपूर्व कारणं यस्याः सा तथा । इह समासे मतुरुक्तार्थः । बुद्धिमत्कर्तप्रणीतो वेदोऽपीति तात्पर्यम् । तद्वचनाद्बुद्धिमद्वचनादाम्नायस्य वेदस्य प्रामाण्यम् । तत्त्वपौरुषेयत्वेन नित्यस्य सतो विशिष्टपदवाक्य रचनात्मकत्वात्तस्य । अत्र प्रयोगः । यत्पदवाक्यरचनात्मक तत्पौरुषेयं दृष्टम् । यथा मीमांसाभाष्यादि । तयाभूतं च वेदवाक्यम् । इति स्वभावहेतुः । तत्रैवेति कपालाख्ये । हेतुदृष्टान्तयोरुपादानं हेतुदृष्टान्तोपादानम् । मातृत्वेनेति । मातृधर्मेण । कीदृशः पुनरत्र स्ववचनविरोध इत्याह विरोधश्चेति । तद्विपरीतेति । अप्रसवधर्मिणीत्यर्थः । साध्यधर्मलक्षणमिति विनाशि स्वरूपम् । यत उक्तमित्यादि । सांख्यमते हि पञ्चविंशतिस्तत्त्वानि भवन्ति । यथा सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः तत्र सत्त्वं सुखं रजश्च दुःखं तमश्च मोह इति । प्रकृतेश्च महान् बुद्धिरुत्पद्यते । सा च गवादौ पुरोदृश्यमाने गौरेवायं नाश्वः स्थाणुरेवायं न पुरुष इति या निश्चयाध्यवसायरूपा । बुद्धेश्चाहंकार उत्पद्यते । स चाहं सुभगोऽहं दर्शनीय इत्याघभिमानरूपः । अहंकाराच्च षोडशको गण उत्पद्यते । यथा पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चार्जिह्वाघ्राणलक्षणानि । स्वं स्वं विषयं बुध्यन्त इति कृत्वा । तथा हि श्रोत्रं शब्दविषयं बुध्यते त्वक् स्पर्श चक्ष रूपं जिह्वा रसं घ्राणं गन्धमिति । पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायपस्थसंज्ञानि । वाक्चेह उच्यते अनयेति वाक् । उरकण्ठादिस्थानाष्टतयी। तदुक्तम् । वाग्वचनमुच्चारयति हस्तौ कर्म कुरुत इत्यादि । अपरं च संकल्पवृत्ति । तद्यथा कश्चिद्वटुः शृणोति ग्रामान्तरे भोजनमस्तीति। तत्र तस्य संकल्पः स्याद्यास्यामीति । तत्र चाहं ग्रामे किं गुडदधिरूपं भोजनं प्राप्स्ये उत चिद्दधि किंवा किमपि नेत्येवं रूपं मन इति । तथाऽहंकारात्पञ्चतन्मात्राणि चोत्पद्यन्ते । यथा गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः रसनतन्मात्रं तिक्तादिरसविशेषः रूपतन्मात्रं शुक्लकृष्णादिरूपविशेषः स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः शब्दतन्मात्रं शब्दविशेष इति षोडशको गणः । तन्मात्रेभ्यश्च यथाक्रमं पञ्च भतानि । पृथ्विव्यप्तेभोवाय्वाकाशसंज्ञान्युत्पद्यन्ते । पञ्चविंशतितमः पुरुषः । तल्लक्षणं च चैतन्यं पुरुषस्य स्वरूपमिति । इति पञ्चविंशति तत्वानि । तथा चोक्तम् । " प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानीति" । तत्र महदादयः प्रकृतेर्विकारास्ते च प्रकृतेभ्रंश्यन्ति । प्रकृतिस्तु नित्या. ऽम्युपगम्यते । ततो न कदाचिदपि सा स्वरूपानश्यति । तथा च महदादिकस्य प्रकृतेश्च सांख्यैः स्वरूपमिदमुक्तम् । यथा “ हेतुमदनित्यमव्यापि सक्रियमनेन क्रमाश्रितं लिङ्गम् । सावयवपरतन्त्रं व्यक्तं विपरीतमव्यक्तमिति" । तत्र हेतुमत् कारणक्त् । अनित्यमिति उत्पत्तिधर्मकत्वाद्बुद्ध्यादेः । अन्यापीति प्रतिनियतं न सर्वगम् । सक्रियमिति सह क्रियाभिरध्यवसायादिमिर्वर्तत इति सक्रिय सव्यापारं सचरणक्रियावदिति यावत् । अनेकमिति त्रयोविंशति