________________
( ५२ )
न्यायप्रवेशवृत्तिपञ्जिका ।
[ न्या. प्र. पू. ११
भेदात्मकम् । आश्रितमित्यात्मोपकारकत्वेन प्रधानमवलम्ब्य स्थितम् । लिमिति यद्यस्मादुत्पन्नं तत्तस्मिन्नेव लयं गच्छति । तत्र भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । स च बुद्धौ । सा चाव्यक्ते । तच्चानुत्पाद्यत्वान्न क्वचित्प्रलीयते । सावयवत्वमिति शब्दस्पर्शरूपरसगन्धात्मकैरवयवैर्युक्तत्वात् । परतन्त्रमिति कारणायत्तत्वात् । इत्येवंरूपं व्यक्तं महदादिकम् । अव्यक्तं तु प्रकृत्याख्यमेतद्विपरीतमिति । तत्र विपरीतता सुयोज्यैव । तत्र च प्रधानं दिवि भुव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य । तथाऽव्यक्तस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावान्निष्क्रियत्वं च द्रष्टव्यम् । इति दिङ्मात्रमिदं दर्शितम् । विशेषव्याख्यानं तु सांख्यशास्त्रादेव सांख्यसप्तत्यादेरवसेयम् । तदेतत्प्रधानोपयोगि यथस्मादुत्पन्नं तत्तस्मिन्नेव लयं गच्छतीत्ययमेव व्यक्तो भ्रंशो नापरः कश्चिन्निरन्वयरूपोऽत आह । तदेतदित्यादि । इह त्रैलोक्यशब्देन महदादिकमेवोच्यते । स्वर्गमर्त्यपाताललक्षणस्यापि च त्रैलोक्यस्य महदादिव्यतिरिक्तस्याभावात् । नित्यत्वप्रतिषेधादिति । आकाशादीनाश्रित्य नैयायिकादिभिरुक्तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमित्यस्य निषेधात् । तथाऽपेतमप्यस्ति विनाशप्रतिषेधादिति । आविर्भावतिरोभावमात्रस्यैवाङ्गीकरणेन बौद्धाम्युपगतस्य निरन्वयविनाशस्य निराकरणादित्यर्थः । ततोऽत्र विनाशित्वं निरन्वयरूपं सांख्यस्य न साध्यमिति पक्षाभासत्वम् । कश्चिदाह ननु बौद्धमते पक्षवचनमेव नोच्चार्यते तत्कथमयं बौद्धस्य पक्षाभासः ? । सत्यमेतद्बालव्युत्पत्त्यर्थमुदाहरणदर्शनतः शास्त्र एवेदमभ्युपगम्यते न वादे । अनुपयोगात् । न खलु वादकाले शिष्या व्युत्पाद्यन्ते । व्युत्पन्नप्रज्ञानामेव वादेऽधिकारात् । ततो वादे हेतुपुरःसर एव प्रयोगः कार्यः । आहेत्यादि । विप्रतिपत्तौ विवादे इष्टार्थप्रसाधनार्थम् । विप्रतिपत्तिरेव चेति नित्यानित्यादिवस्तुधर्मविषया चैतदोषकर्त्री पक्षाभासदोष कर्त्री इति । कुतोऽनुमानं न कुत्रापि कर्तुं युक्तमित्यर्थः । तद्दोषकर्तृपक्षाभासदोष कारि । युक्तिविरुद्धत्वादिति । युक्त्या निराकृतत्वात्पक्षाभासत्वस्य । तथा हीत्यादिनैवमेवार्थ भावयति । दृष्टान्तसाधने कृते इति । दृष्टान्तस्य घटादेरनित्यसिद्धौ कृतायामित्यर्थः । दृष्टान्ते सिद्धिश्व प्रकृते सत्कार्यवादिनिराकरणतो विधेया । तथाहि । शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यावस्थानमिति सांख्याः । तदसंगतम् । कार्यकारणस्य पूर्वमनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ इति चेत् सद्भावे किं प्रमाणं ! | उत्पत्तिरिति चेत् न । विद्यमानस्योत्पत्तेरयोगात् । प्रागेव तस्य विद्यमानत्वात् । अथाविद्यमानस्यो - त्पत्तौ खरविपाणादीनामप्युत्पत्तिः स्यादिति चेत् न । कारणाभावात् । येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिः न च खरविषाणादेर्जनकमस्ति कायभावेनैव कारणाभावप्रतीतेः । एवं तन्तुषु घटादेरनुत्पत्तिर्वाच्या । मृत्पिण्डे च पटादेरिति । प्रतिनियतसामम्याः प्रतिनियतकार्यजनकत्वात् । तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धान्या त्वन्यस्येत्युपादानेषु प्रतिनियत कार्योपलम्भ एवं कार्य नियमयति । न तु कारणे सत्त्वात्तन्नियमः ।
1
1