________________
न्या. म. पू. २१]
पार्श्वदेवकृता
(५३)
किं च यदुत्पद्यते तदुत्पत्तेः पूर्वमसदेवोत्पद्यत इति व्याप्तिरिष्यते न पुनर्न्यदसत्तदुत्पद्यत एवेति । तस्माद्विद्यमानस्योत्पत्तिर्व्याहता । विद्यमानत्वादेव । मृद्दण्डचक्रादिकारणं व्यापारवैयर्थ्य च । अथाभिव्यक्त्यर्थ व्यापारः कारणमिति चेत्तर्हि साऽभिव्यक्तिः सती क्रियते असती वा । सत्पक्षे विद्यमानत्वादेव कारकवैयर्थ्यम् । अथाभिव्यक्तिरविद्यमानैः क्रियते । तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तेः स्वरूपोपलम्भस्याविद्यमानस्यैवोत्पत्तेः । न चावरणन्यपगमोऽभिव्यक्तिः । नित्याया अभिव्यक्तेरावरणस्याकिंचित्करत्वात् । किंचित्करत्वे वाऽनित्यत्वप्रसङ्गः । यश्वाङ्कुरो जायते घटं कुर्विति व्यपदेशो ऽसिद्धस्यापि सिद्धतया स भाविनि भूतवदुपचार इति न्यायादौपचारिक इति । तस्माद्विद्यमानस्योत्पत्त्यर्थासंभवात् घटशब्दादिरसन्नेवोत्पद्यते यश्चोत्पद्यते स कृतकः । कृतकत्वाश्चान्यत्वसिद्धिः । एवं च विनाशी शब्दः कृतकत्वाद्धटवदिति सांख्यं प्रति बौद्धस्य वदतो न पक्षाभासतेति । दृष्टान्तमसाध्य च प्रयोगे क्रियमाणे स्यादेव । पुनः साधना. पेक्षत्वात् । तथा हि यदेव साधनमुपन्यस्यते वादिना तत्सर्वं स्यात्सिद्धमित्यपरापरसाधनोपन्यासेनाऽनवस्थैव स्यात् । किंचाप्रसिद्ध विशेषणाऽप्रसिद्धविशेष्यनामानौ तत्त्वतः पक्षाभासावपि न स्तः । तथा ह्येतौ किं वाद्यपेक्षया पक्षाभासौ स्तः प्रतिपाद्यापेक्षया वा । तत्राद्यपक्षे प्रत्यक्षादिप्रमाणैः प्रतिपादकस्य विशेषणं ब्रुवतो न पक्षाभासता| प्रमाणप्रतिपन्नं वदतः पक्षाभासत्वायोगात् । प्रतिपाद्यापेक्षया नैतद्दृषणम् । अप्रतिपन्नस्य प्रतिपाद्यत्वात् । निरात्मान इति निरवयविनः । न धर्माणामनुगतः कश्चिदवयवीद्यत्वा समस्तीत्यर्थः । तद्ब्राहकप्रमाणाभावात् । तथाहि गुणावयवव्यतिरिक्तमवयव्यतिरिक्तमवयवि द्रव्यं नोपलभ्यते । नहि शुक्लादिगुणेभ्यस्तन्त्याद्यवयवेभ्यश्चार्थान्तरभूतं पटादिद्रव्यं चक्षुरादिज्ञाने प्रतिभासते । दृश्यश्वावयव्यभ्युपगतः । एवं च यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसादिति व्यवहर्तव्यं । यथ क्वचित्प्रदेशे घटः । नोपलभ्यते चावयव्यतिरिक्तोऽवयवी तत्रैव देशे इति स्वभावानुपलब्धिः । न च वाच्यमवयव्यभावे परमाणूनामतीन्द्रियत्वात्प्रतिभासो न स्यादिति । यतो विशिष्टावस्थां प्राप्ता नामणनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि परस्पराविनिर्भागवर्तितया सहकारितावशादुत्पन्नाः परमाणवोऽध्यक्षता मुपयान्त्येवेति । न हि सर्वदैवेन्द्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते । न त्वयव्यभावे बहुषु परमाणुष्वक्षव्यापारेणैकः पट इति कथं प्रत्ययः ? । नैवम् । अनेकसूक्ष्मतरपदार्थसंवेदनत एवैक इति विभ्रमोत्पत्तेः । प्रदीपादौ नैरन्तर्यो. त्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽप्येकत्वविभ्रमवत् । ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः १ । नैवम् । विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तेरवयवानां विभागानुपलक्ष्यत्वेऽवयव्यपि कथम् तथा प्रत्यक्षत्वेनेष्टः । किंच | यदि बाह्मार्थनिर्मासेनाणवः प्रतिभासन्ते तदाऽवयव्यभ्युपगमेऽपि पचिविषयः स्थूलरूपतया प्रतिभासमान एकोऽनेको वा । एकोप्यवयवैरारब्धोऽनारब्धो वा । तत्र न तावदयमुभयरूपोऽप्येको युक्तः । स्थूलस्यैकस्वभावविरोधात् । तथाहि यदि स्थूलमेकं स्यात्तदेकदेशरागे सर्वस्य रागः प्रसज्येत