________________
(५४)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र.इ. २१ एकदेशावरणे सर्वस्यावरणं भवेत् । अनेकत्वे चाभ्युपगमविरोधः । बहुष्वप्यवयवेष्वेकल्यैवावयविनो वृत्तेर्भवद्भिरभ्युपगमात् । न च स्थूलसूक्ष्मादिव्यपदशोऽवयव्यसत्त्वेऽनुपपन्न इति वाच्यम् । अवयवा एव तथा उत्पद्यमानाः अल्पबहुतराः स्थूलसूक्ष्मादिव्यपदेशं लभन्ते । इत्यलं प्रपञ्चेन । अथ किं बहूनि कारणानि विद्यन्ते येन समवायिकारणमित्यनेन विशेष्यने आत्मत्याह वैशेषिकस्य होति । समवायिकारणादिति । समेकीभावे वाऽपृथक्त्वे । अय गतौ । ततश्चैकीभावेनापृथगमनं समवायः संश्लेषः स एषामस्तीति ते समवायिनस्तन्त्वाद्यर्था यस्मात्तेषु पटादिकं समवैतीति । ते च ते कारणं न तस्मात् । तथा हीत्यादि । वैशेषिकमते तन्त्वादयः समवायिकारणाख्यमाधारभतं कारणं वर्तन्ते पटादेराधेयभूतकार्यस्य । बौद्धानां तु तन्त्वादयः उपादानकारणं भण्यन्ते । जैनानां परिणामकारणमिति प्रस्तावादिदमुक्तम् । तथा तानवितानीभावे सति यस्तन्तुसंयोगः सोऽसमवायिकारणम् । संयोगसंयोगिनोर्भिन्नत्वाभ्युपगमात् समवायेन चैकीकरणात् । तुरीति। आदिशब्दात्कुविन्दादेग्रहणम् । प्रकृते कारणत्रययोजनामाह । इत्थमित्मादि। आत्मा सुखादीनामाधेयभूतानामात्मगुणानां समवायिकारणाख्यमाधारभूतं कारणम् । यतस्ते सुखादय आत्मनि समवेता उत्पधन्ते । आत्ममनसोः संयोगोऽसमवायिकारणं सुखादीनामुत्पत्तौ । आत्ममनःसंयोग इति समसनीयम् । आत्मनि सुखादीनामुत्पत्तौ स्रक्चन्दनादयो निमित्तकारणं भवन्तीति । सामग्र्या एवेति । यथा वैशेषिकस्य कारणत्रयात्कार्यस्योत्पत्तिरिष्यते एवं न बौद्धस्य मते । किं तु विज्ञानसंतती सुखादयः स्त्रक्चन्दनादिसामग्रीवशादुत्पद्यन्ते । इत्येतदेवाभ्युपगम्यते इति भावः । प्रसि. ध्यति स्म प्रसिद्धोऽकर्मक: कर्तरि क्तः। यस्मिन्निति पक्षाभासे । अथ कथमेषां पक्षाभासत्वम् ! । किमेकेन स्वरूपेणोतस्विद्भिन्नेनेत्याह । एषामित्यादि । स्वं चेत्यादि । धर्मस्य श्रावणत्वादेः स्वरूपं श्रवणग्राह्यत्वादिकं धर्मस्वरूपम् । आत्मनोऽनतिक्रमेण यथाऽत्मा तस्य. भावो याथाम्यमवैपरीत्यम् । धर्मस्य याथात्म्यमिति विग्रहः । निराक्रियतेऽनेनेति । अश्रावणत्वादिना । श्रावणत्वादिकं प्रसिद्धम् । यद्वा निराकरोत्यश्रावणत्वादिकं कर्मिति निराकरणम् । प्रतिषेधतीति प्रतिषेधर्म निषेधकमित्यर्थः । धर्मयाथात्म्यप्रतिषेधद्वारेणेति । अश्रावणत्वादेः पक्षाभासत्वमिति शेषः । अथ किमेभिः प्रसिद्धं निराक्रियते येन पक्षाभासत्वमित्याह । प्रतिषिध्यते चेति । धर्मयाथात्म्यं श्रावणत्वादिकम् । परं न तच्छक्यते निराकत प्रत्यक्षादिप्रसिद्धधर्मयाथात्म्येनैव तस्या श्रावणत्वादेर्वाध्यमानत्वात् । तत्रेति । एवं सति प्रतिपाद्यतेऽवोध्यते परोनेन वचनेन कृत्वेति प्रतिपादनं वचनमुच्यते । प्रत्याय्यते परोऽनेनेति प्रत्यायनम् । परस्य प्रत्यायनमिति समासः । अथ किं दृष्टान्तादावप्युपन्यस्ते प्रतिपादनेषु त्रिषु न संभवति येन पक्षाभासत्वमित्याह । न चेति । वादिप्रतिवादिनोरुभयोरपि श्रावणः शब्द इत्यत्रार्थे विप्रतिपत्तेश्च साधनवैफल्यम् । अथ किमत्र तात्पर्य स्थितमित्याह । ततश्चेत्यादि ।
हेतुवदाभासन्त इति । हेतुस्थानप्रयुक्तत्वात्साध्यासाधनाचेत्यर्थः । संदिग्धः संशयित