________________
न्या. प्र.१०२९
पादेवकृता उच्यते । तत्रेति पूर्ववदिति । तत्र तेष्वसिद्धादिषु चतुर्पु मध्ये उमयासिद्धत्वगुणेनायो निर्धार्यते । कृतफत्वादित्यादि । मीमांसकं भट्टम् । कापिलं वेति सांख्यम् । वथाहीत्यादि । अयमों यथा घटादयः प्रदीपेन तमसि स्थिताः सन्त एवाभिव्यज्यन्ते एवं शब्दोऽपि नित्यतया ताल्वादिभिः सन्नेवाभिव्यज्यते न त्वसन्नुत्पद्यते । न चासिद्धं शब्दनित्यत्वमिति वाच्यम् । प्रत्यभिज्ञानादेरुपलम्भात् । यमहमश्रौषं गोशब्दं तमेव तर्हि शणोमीति श्रोत्रं विज्ञानमुपजायमानं दृष्टम् । न चेदमन्यताग्रहणादप्रमाणम् । अन्यताप्राहकप्रमाणानुपलब्धः । तथाऽर्थापत्त्या च शब्दस्य नित्यत्वं ज्ञायते। अनित्यत्वे हि संकेतकालानुभतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसंकेतितादर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यते । इति तदन्यथाऽनुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते । सांख्यमते तु सर्वमपि वस्तु नासदुत्पद्यते नापि सद्विनश्यति । कित्वाविर्भावातरोभावमात्रमुत्पत्तिविनाशमभ्युपगम्यते । ततः सदेव कार्य कारणात्मन्यभिन्यज्यते । प्रमाणयन्ति च । यदसत्तन्न केनचित्कर्तुं शक्यम् यथा गगनाम्भोरुहम् । असत्तु कारणावस्थायां कार्यमिति व्यापकविरुद्धोपलब्धिः । तथाहि यदि कार्य केनापि स्वरूपेण कारणात्मनि न स्यात्तदा क्षीरादवपि सर्वथा दध्यादेरसत्त्वान्न तस्मादपि तस्योत्पत्तिः स्यात् । तस्माद्विज्ञायतेऽस्ति केनापि रूपेण कार्य कारणात्मनि । ततः स्वस्वसाग्रीवशेन कार्यमस्फुटं सत्स्फुटीभवति । एवं च प्रकृते शब्दोऽपि सनेव तात्वादिभिरभिन्यज्यत इति । ततश्च नित्यशब्दवादिनं प्रति कृतकत्वमसिद्धो हेतुः । न त्वपक्षधर्मों हेतुरसिद्धः स्यात् । अत्र च कृतकत्वं शब्दधर्मस्तत्कथमसिद्धतादोषः स्यात् ! । उच्यते । मीमांसककापिलयोः कृतकत्वमपूर्वोत्पादलक्षणं बौद्धाभिमतं शब्दे न सिद्धम् । कित्वाभिव्यक्तिरेव सिध्येत् । पक्षधर्मोऽस्त्येवेति । केवलं मीमांसकस्य प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कृतकत्वं तावदसिद्धं यावत्परपक्षन्युदासद्वारेण प्रमाणतो न व्यवस्थाप्यते । अत एवान्यतरासिद्धो वस्तुवृत्त्या हेतुरेव केवलं पक्षधर्मतया परेण प्रतिपन्नत्वादसिद्धबुद्धि जनयति । प्रतिपादिते प्रमाणतः पक्षधर्मत्वे ततः साध्यसिद्धर्भावादेतुरेवति । अत एव न्यायशास्त्रे उक्तम् यया-यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि पक्षधर्मत्वादितत्समर्थनन्यायविस्मरणादिनिमित्तन प्रतिवादिनं प्राभिकान्वा बोधयितुं न शक्नोति तदाऽन्यतरासिद्धत्वमिति । अन्यतरासिद्धो हेत्वाभास एवं नास्तीत्येके । तथाहि । परेणासिद्ध इत्युदाक्तेि यदि वादी तत्साधकं प्रमाणं न दर्शयति ततः प्रमाणाभावादुभयोरसिद्धः । अथ प्रमाणं दर्शयति ततः प्रमाणस्यापक्षपातित्वादुभयोः सिद्धः । अन्यथा साध्यमप्यन्यतरासिद्धं न कदाचित्सिध्यतीति व्यर्थः प्रमाणोपन्यासः स्यात् । अयं यावत्परं प्रति प्रमाणेन न प्रसिध्यते तावत्तं प्रत्यसिद्ध इति चेत् गौणं तीसिद्धत्वम् । यया रत्नादिपदार्थस्तत्वतोऽप्रतीयमानस्तावन्तं कालं रत्नाभासः । न मुख्य इति । जलादे: सकाशात्प्रभवो यस्य स जलादिमभवः । रेणुवर्तिलिरेवोच्यते । आदिशब्दाममहिकादेग्रहणम् । स्वयमेव धूमविषयं संदेहमापद्यते भूतसंघातः। अनिपुणेन च प्रमात्रा प्रयुज्यते