________________
(५६)
न्यायप्रवेशवृत्तिपत्रिका [न्या.प्र.पृ०२१ इत्यापाद्यमानः भूतानां संघात इति विग्रहः । अग्निसिद्धौ । अग्मिसिद्ध्यर्थम् । नन्वेमपि यत्रास्ति धमस्तत्रास्य कथं न गमकत्वमित्याह । निश्चितो हीत्यादि । धुमत्वेनेति बहिनन्यत्वलक्षणधूमस्वरूपेण । यदा सत्यधूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदा गमकस्वरूपानिश्चयात्संदिग्धासिद्ध इत्यर्थः। प्रयोगस्त्वेवम् । अग्निमानयं प्रदेशो धूमवत्वान्महानसवदिति। अपक्षधर्मता तु स्पष्टैव गम्यते । यतो नात्र धूमवत्त्वलक्षणो हेतुस्तत्प्रदेशधर्मत्वेन वर्तते किंतु सूक्ष्मक्षित्यादिसमूह एव । स च न सत्यधूमशब्दवाच्य इति । गुणाश्चास्य षडिति । तत्र संख्यागुणो यथैकमाकाशमिति । घटाकाशं पटाकाशमित्यादयश्च भेदाः कल्पिता एवेति । परिमाणं महत्त्वं यथा महदाकाशमिति । पृथक्त्वं नाम पृथिव्यादीनां द्रव्याणां विभिन्नद्रव्यमाकाशमिति विभिन्नताहेतुः । विवक्षितप्रदेशस्थितेन घटादिना सहाकाशस्य संवन्धः संयोगः। विवक्षितस्थानाद्धटादावुत्सारिते घटादिना सह घटाधवष्टब्धस्याकाशस्य विश्लेषो विभागः । तथा शब्दस्यासाधारणकारणेनाकाशाख्येन जन्यत्वाच्छब्दोऽम्बरगुणः। वैशेषिकस्य हि कारणत्रयात्कार्यस्योत्पत्तिरिष्यते । तत्राकाशं शब्दस्य समवायिकारणम् । ताल्वादयस्तु निमित्तकारणमिति । धर्मिणोऽसिद्धत्वमपि कथं सिद्धमिति चेदाह । तथा चेत्यादि । पञ्च वस्तनि परेषां यानि तानि संज्ञामात्रादिशब्दव्यपदेश्यानीत्यर्यः । तत्र संज्ञैव संज्ञामात्र नाममात्रमित्यर्थः । न तु वस्तुसदस्तीति । प्रतिज्ञामात्रं वचनमात्रम् । यथाऽस्त्यात्मादीति । परं विचारं न क्षमते । संवृतिमात्रं कल्पनामात्रम् । लोके संव्यवहारनिमित्तं यत्क्रियते तत्संव्यवहारमात्रम् । अद्धति कालम्याख्या । प्रतिसंख्यानिरोधः । सहेतुको विनाशः । पुद्गलश्वात्मोच्यते । अयं भावार्थः । इहार्थक्रियासमर्थ यत्तदेव वस्त्वम्युपगम्यते बौद्धैः । अतीतकालस्य च विनष्टत्वाद्भविष्यतश्चानुत्पन्नत्वात्तयोरर्थक्रियासामर्थ्यविरहः । किंतु वर्तमानक्षण एवार्थक्रियासमर्थ इति स एवाभ्युपगम्यते तत्त्वतः । तथा चोक्तम् " अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् । षण्डम्य रूपवैरूप्यं कामिन्या किं परीक्ष्यते ॥” इति । तथा सहेतुकोऽपि विना विचार्यमाणो न घटते । तथा ह्यसौ मुद्गरादीनां क्रियमाणो विनाश्याद्घटादेर्भिन्नो वाक्रियेताऽभिन्नो वा ! । यद्यभिन्नस्तदा विनाशस्य तद्व्यतिरेकाद्विनाश्यमेव कृतं स्यात् । तच्च स्वकारणकलापादेव सिद्धं किं तत्र विनाशहेतना ? । तस्यैव च करणे सुतरां तस्य विनाशो न स्यात् । अथ भिन्नस्तदा संबन्धाभावाकम्यासौ स्यात् । तथा सति घटवदविशेषणविशिष्टस्याप्यसौ स्यात् । तथा भिन्नस्य तम्य करणे न किंचिद्विनाश्यस्योपकृतं भवेत् । तथा सत्यविचलिते रूप एवासौ भावो भवेत् । अथ तत्संबन्धः क्रियते । कोऽयं संबन्ध ? इति वाच्यम् । तत्र न तावत्तादात्म्यलक्षणः। व्यतिरेकिणा सार्ध तादात्म्यायोगात् । नापि तदुत्पत्तिः । विनाशस्य विनाश्यादुत्पत्तरयोगात् । अपस्श्व संबन्ध एव नेष्यते । किंचासावविनश्वरस्वभावानां भावानां भवेद्विनश्वरस्वभावानां वा । यद्याद्यः कल्पस्तदा तेषां पुरन्दरशतैरप्यन्यथाकर्तुमशक्यत्वात्कि पुनर्लगुडादिमात्रेण तेषामन्यथा