________________
न्या. प्र. ०२४ ]
न्यायप्रवेशवृत्तिपञ्जिका
(५७)
भावः स्यात् । अथ द्वितीयः कल्पस्तदप्यचारु । स्वयं क्षणनश्वरात्मकस्य स्वहेतुभ्य एवोत्पत्तेः किं नाशहेतुना कृत्यम् । तथाहि यो यत्स्वभावः स स्वहेतोरेव । त्पद्यमानस्तादृशो भवति न पुनः सद्भावे हेत्वन्तरमपेक्षते । यथा प्रदीपः । तथाहि । प्रदीपः स्वयं प्रकाशस्वभावत्वान्न स्वप्रकाशेऽपरं प्रदीपान्तरमपेक्षते तद्वत्क्षणधर्माचेद्भावो न किंचिन्नाशहेतुना । अतो न लगुडादिना घटादेर्विनाशः क्रियते किंतु भिन्नमेव वस्तु स्वसामग्रीवशेनोत्पद्यते कपालादिकमिति । तथा आकाशमप्यालोकतमसी एवेति सौगताः । नेतरवकाशदानादिस्वरूपं तत्रान्तरप्रसिद्धम् । तकाहकप्रमाणाभावात् । तथाहि । न प्रत्यक्षेण गृह्यते आकाशं नाप्यनुमानेन । आकाशाविनाभूतस्य लिङ्गस्यादर्शनादनुमानाप्रवृत्तेस्तदतिरिक्तस्य प्रमाणस्य चाभावादिति । पुद्गलस्त्वात्मसंज्ञकश्चित्त चैत्तसंतानरूप एव न तु तद्व्यतिरिक्तो नित्यत्वधर्मात्मकः कश्चिदस्ति । प्रदर्शितन्यायेन तत्प्रतिपादक प्रमाणाभावादिति मन्यन्ते । प्रकृते चाकाशेनैव प्रयोजनमत आश्रयासिद्धोऽयं हेतुरिति । प्रतिज्ञार्थस्यैकदेशः सन्न इति विग्रहः 1 प्रतिज्ञार्थस्यासिद्धत्वाद्धेतुरपि तदेकदेशः सन्नसिद्ध इत्यर्थः । अव्यापकासिद्ध इति । इह पक्षे धर्मो यो न भवति स एवोच्यते असिद्धः । ततोऽसिद्धस्यैवेह विचार्यमाणत्वात्पक्ष इत्यध्याहृत्य समसनीयम् । यथा पक्षस्य धर्मिरूपस्यान्यापकः सन्नसिद्धोऽव्यापक सिद्ध इति । इह पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजो न्यग्रोधादावदर्शनात्तस्य किंतु क्वचिदेवेति । आचार्य आहेति । उत्तरदाता सूरिब्रूत इत्यर्थः । उभयासिद्ध इति । ताविति शेषः । तथाहि प्रतिज्ञार्थैकदेशस्य तथा पक्षाख्यधर्मिणोऽव्यापकस्य हेतुत्वं न वादिनः सिद्धं नापि प्रतिवादिन इत्युपपद्यते उभयासिद्धेऽनयोरन्तर्भाव इति । शेषद्वयस्येति । द्वाववयवौ यस्य द्वितयसमुदायस्तद् द्वयम् । शेषं च तद्द्वयं च तस्य । अत्रैवेति । सिद्धभेदौ द्वावेव वर्तेते । कौ द्वावित्याह । द्वयोरन्यतरस्य चेति । द्वयोरसिद्ध उभयोरसिद्ध इत्यर्थः । अन्यतरस्य चासिद्ध इत्येवंरूपौ । अन्ये त्वसिद्धभेदावुभयासिद्धान्यतरासिद्धाख्यौ द्वावेव वर्तेते नेतरः कुतः द्वयोरन्यतरस्य वेति तत्र द्वयोः संदिग्धा सिद्धाश्रयासिद्धयोरन्यतरस्यैकस्य कस्यचिदुभयासिद्धस्यान्यतरासिद्धस्य वा तन्मध्ये ऽन्तर्भावादित्यध्याहृत्य व्याचक्षते । नेत्यादि । धर्मिणोऽसिद्धिश्चाश्रयासिद्धे हेतोः संदेहश्च संदिग्धासिद्धे । धर्म्यसिद्धिहेतुसंदेहौ तावेवोपाधी विशेषणे तयोर्द्वारं मुखं तेन । भेदाविशेषावबोधार्थमसिद्धद्वयस्योपादानम् । अथ भेदविशेषसिद्ध्याऽपि किं प्रयोजनमिति चेदाह । विनेयेति । विनेयव्युत्पत्तिः
1
फलं यस्य तस्य भावस्तत्त्वं तस्मात् । ननु यद्यनयोरनेनाशेन पृथगुपन्यासस्तर्हि प्रतिज्ञार्थैकदेशान्यापकासिद्धयोरपि पृथगुपन्यासोऽस्तु । तत्रापि किंचिद्भेदस्य विद्यमानत्वात् । सत्यमेवाबहिरेव भेदाविशेषस्य सिद्धत्वादेतयोरन्तर्भाव एव विवक्षित इति संभाव्यते ॥ अनैकान्तिक इत्यत्र एक श्वासावन्तश्चैकान्तो निश्चय इत्यर्थः तत्रभवः स प्रयोजनमस्येति वा ऐकान्तिकः ।
८