________________
(५८) पार्श्वदेवकृता-
[न्या. प्र. ०२५ तनिषेधेऽनैकान्तिकः । स पक्षविपक्षगामित्वात्साध्येतरयोः संशयहेतुरनैकान्तिक उच्यते । प्रत्युदाहरणमेवेति । उदाहरणमाश्रित्येत्यर्थः । द्वयोरित्यादिना साधारणशब्दो लोकेऽप्युभयपक्षयोस्तुल्यवृत्तितया प्रवर्तत इत्याचष्टे । एवं हेतुरपि य ईदृशो द्वयोः साध्ययोः सामान्यः स साधारण उच्यते । प्रमेयत्वं नाम प्रमाणेन प्रत्यक्षादिरूपेण परिच्छेद्यत्वमुच्यते । इदं चेति प्रमेयत्वम् । सपक्षश्चेतरश्च तौ च तावाकाशघटादी च तयोर्भावस्तेन । तत्र नित्यत्वे साध्ये नित्यमाकाशादिः सपक्षोऽस्य विपक्षस्त्वनित्यो घटादिस्तदिदं सपक्षविपक्षव्यापित्वादनैकान्तिकम् । ततश्चात्र नित्यः शब्दः प्रमेयत्वादाकाशवदिति प्रयोगे उक्ते संदेह उत्पद्यते यदि पुनः प्रमेयत्वा
द्धटवदनित्यः शब्द इति । रूपप्रदर्शनं साक्षात्प्रदर्शनमुच्यते । अत्राहेत्यादि । तद्भावहेतुसद्भावे भावित्वं संशयस्य तद्भावाहा मावित्वम् । तस्यानुपपत्तिस्तस्याः कारणं नायं संशयहेतुरिति योगः । अनुपपत्तिरपि कुत एतदित्यादि । उक्तं चेत्यादि । संशोतिकारणं नहि वर्तन्ते । अथ हेतोरनुपन्यासात्पूर्व सामान्यसंशयः । साध्यमसाधयता च हेतुना स एव निविडः स्यादिति कथं न संशीतेः कारणमित्याह । तद्भावस्याविशेषत इति । तद्भावस्येति संशयभावस्येत्यर्थः । नैतदेवमित्यादि । किंतु हेतावनुपन्यस्ते यः संशयः स एव विवक्ष्यते ।अथ मूलसंशयस्य विवक्षाभावे प्रयोगोऽपि तर्हि कथमित्याह । तमन्तरेणापीति । तमिति मूलं संदेहम् । यदि संशयाभावेऽपि क्रियते तर्हि प्रयोगेणापि किं कार्यमित्याह । क्रियते चेति । प्रभृतिग्रहणादव्युत्पन्नमतिसंशयितमतिकयोहणम् । न केवलं संदेहे सत्यात्मावबोधार्थ हेतुप्रयोगौ विधी इत्यर्थः । यदि विपर्यस्तमत्याद्यवनोधार्थः क्रियते प्रयोगस्तर्हि चरितार्थत्वादस्यानैकान्तिकत्वम् । कथमित्याह । तत्रापि चेति । प्रयोगेऽपीत्यर्थः । अथेदं कथं 'संशयहेतर्येनानैकान्तिकतेत्याह । तत्रापीत्यादि । स्वधर्मिणं शब्दाख्यम् । ननु कथमिदमुच्यते सपक्षविपक्षाभ्यां व्यावृत्तत्वाच्छावणत्वं संशयहेतुरिति । यतः सामान्यविशेषसंज्ञितं नित्यं यच्छब्दत्वं तत्सपक्षस्तत्रेद वर्तते गन्धत्वादिकं च विपक्षस्तस्माच्च व्यावृत्तमतः सपक्षवृत्तेर्विपक्षानिवृत्तेश्च सम्यग्धेतुरेवासाविति । तत्रोच्यते । इह मीमांसकेन प्रयोगोऽयं विधीयते । तद्भेदाश्च बहवः तत्र केचन शब्दत्वसामान्यमिच्छन्ति केचन नेति । तत्र ये नेच्छन्ति ते ह्येवमाहुः । न शब्दं विहायापरं सामान्य. विशेषणरूपं शब्दत्वं नाम सामान्यमस्ति । एकशब्दग्रहणे शब्दान्तरानुसंधानामावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसंधानं यथा शाबलेयग्रहणे बाहुलेयस्य । शब्दे चैकस्मिन् गृह्यमाणे न शब्दान्तरानुसंधानम् । किंतु शाङ्गोऽयं शब्दो वैणवोऽयमित्यादि विभिन्नो व्यावृत्त एव प्रत्ययो जायते । तन्न शब्दे शब्दत्वसंभवः । शब्दत्वमिति भावप्रत्ययेनापि च शब्दस्वरूपमात्रस्यैवाभिधानम् । अतः शब्दाख्यं धर्मिणं विहायान्यत्रास्यावर्तनात्पक्षधर्मतैवाऽस्य केवलं न शेष रूपद्वयम् । अतस्तन्मतेन संशयहेतुरेवायम । ये तु शब्दत्वं सामान्यमिच्छन्ति तन्मतेन तु सम्यग्धे