________________
न्या. प्र. ०११] न्यायप्रवेशवृत्तिपत्रिका तुरेवायम् । रूपयोपपत्तेः । तथा च व्यस्तयोः सम्यग्धेतुत्वादिति वक्ष्यति । अनेन हि श्रावणत्वाख्यस्यापि सम्यग्धेतुत्वमावेदयिष्यतीति स्थितम् । नान्यथेति । न तृतीयप्रकारान्तरेण । विरोधादिति । नित्यानित्ययोः परस्परपरिहारलक्षणविरोधेन स्थितत्वान्न नित्यानित्यं वस्त्वस्ति तृतीयम् । विरोधाभ्युपगमे चाम्युपगम्यमाने अतिप्रसङ्गः। विरुद्धयोनीलपीतादिकयोरपि वस्तुनोरेकतयैवावस्थानप्राप्तेः। न चैतदस्ति । तस्मान्न तृतीयं वस्त्वस्ति । किंभूतस्येत्यादि । श्रावणत्वं श्रवणेन्द्रियग्राह्यत्वं किंभूतस्य सतः संभवतीति शेषः । तदलेनेति । नित्यानित्योपलम्मसामर्थेन । तत्रापीति । शब्देऽपि । निश्चयो नित्यत्वानित्यत्वविषयः । नान्ययेति । नित्येऽनित्ये वा श्रावणत्वस्योपलम्भाभावे शब्देऽपि नित्यत्वादिविषयो निश्चयो न युज्यत इत्यर्थः । कुत इत्याह विपर्ययेति । तथाहि शब्दस्य यत्साध्यमपन्यस्तं नित्यत्वमनित्यत्वं वा तत्र नित्यत्वे उक्तेऽनित्यत्वस्यापि कल्पयितुं शक्यत्वादित्येवंरूपा यैका विपर्ययस्य कल्पना संकल्पस्तस्या अपि दुर्निवारत्वात् । न केवलमुपन्यस्तप्रतिनियतसाध्यसद्भावो युज्यत इत्यर्थः । आक्षेपेत्यादि । नायं संशयहेतुरित्यायुक्तौ । एवं शेषेष्वपीति । शेषेषत्तरेष्वप्यनैकान्तिकेष्वाक्षेपपरिहारकल्पनम् । भावनीयमित्यर्थः । सपक्षेत्यादि सूत्रम् । तत्र इत्येवं सति । अस्य साध्यस्यति । अप्रयनानन्तरीयकत्वाख्यरय । तत्र विद्युदाकाशादिरूपे सपक्षे । विद्युदादिर्यस्य वनकुसुमादेः स तथा तस्मिन् । आकाश आदिर्यस्य दिग्देशकालादेः स तथा तस्मिन् । तस्मादेतदपीति । न केवलं प्रमेयत्वश्रावणत्वे इत्यर्थः । विद्युद्घटयोः साधर्म्य तेन। विद्युद्घटयोस्तुल्यवृत्तिरस्यानित्यत्वस्य । तत्तथा । तस्य भावः सत्ता तया । स्वधिया भावनीयं व्याख्यानमिति शेषः । इहानित्यत्वस्योपलक्षणत्वात्प्रयत्नानन्तरीयकत्वे साध्ये कृतकत्वमपि विपक्षैकदेशवृत्तिसपक्षन्यापिरूपोऽनैकान्तिको ज्ञेयः । न चैवमेतयोः कृतकत्वानित्यस्वयोः कृतकत्वमात्रापेक्षयैव प्रयोगे क्रियमाणेऽनैकान्तिकता। यदा तु प्रयत्नानन्तरीयकः शब्दः प्रयत्नानन्तरीयकपदाथस्वभावकृतकत्वात् प्रयत्नानन्तरीयकपदार्थस्वभावानित्यत्वाद्वेति विशेषितं कृतकत्वमनित्यत्वं वा हेतुतयोच्यते तदा नायं दोष इति बोद्धव्यम् । उभयपक्षक इत्यादि । अमूर्तत्वादि । असर्वगतद्रव्यपरिमाणं मूर्तिः । असर्वगतं प्रतिनियतदेशव्यापकं यद्रव्यं घटादि तस्य परिमाणं परिमितिरुपलम्भो मूर्तिरुच्यते । । विद्यते यस्य स मर्तः । मत्वर्थीयोऽत् । तनिषेधेऽमूर्तस्तद्भावस्तत्त्वं तस्मात् । आकाशपरमावादिः सपक्ष इति । नन्वाकाशस्य सपक्षत्वं युक्तं नित्यत्वात् । परमाणनां तु प्रतिक्षणं संजातातिशयत्वेन चयापचयादिलक्षणेनानित्यत्वात्कथं सपक्षेऽन्तर्भाव उच्यते । नित्याः परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गता इत्यदोषः । तस्मादित्यादि सूत्रम् । एतदप्य. मूर्तत्वमनकान्तिकम् । किं सुखवदमृतत्वादनित्यः शब्दः आहोस्विदाकाशवन्मूर्तत्वान्नित्य इत्यनैकान्तिकता ॥ ननु विरुदाव्यभिचारीत्यस्य शब्दस्य कोऽर्थः । यतो यो यस्य व्यभिचारी स कथं विरुद्धः अय विरुद्धः कथमन्यभिचारीत्याह अधिकृतेत्यादि । इह प्रस्तुतप्रयोगेऽधिकृतः प्रस्तुतो हेतुः कृतकस्वाल्यस्तावृत्तस्यानुमेयमनित्यत्वं तस्य विरुद्धोऽर्थो