________________
(१०) पार्श्वदेवकृता
[न्या. म. वृ० १७ नित्यत्वरूपस्तस्य प्रसाधकः श्रावणत्वाख्यः। विरुध्यते स्म विरुणद्धि स्मेति वा विरुद्धः । कर्माण कर्तरि वा निष्ठा । तं विरुद्धं श्रावणत्वाल्यं न व्यभिचरति कृतकत्वलक्षणो विरुद्धाव्यभिचारी । तथा व्यभिचरणं व्यभिचारस्तनिषेधोऽन्यभिचारः । विरुध्यते स विरुद्धः । विरुद्धस्याव्यभिचारः सोऽस्यास्तीतीयमपि व्युत्पत्तिज़ैया । तथा चान्यत्राप्यस्य लक्षणमुक्तम् । एकत्र धर्मिणि तुल्यलक्षणयोर्विरुद्धयोर्हेत्वोः संनिपातो विरुद्धाव्यभिचारीति । तथाविधः प्रतिद्वन्द्वी योऽसावर्थो नित्यत्वरूपस्तस्यानिराकृतेरनिराकरणात्मतियोगिनं श्रावणत्वाख्यम् । ननु तर्हि सर्वोऽपि हेतुः स्वसाध्यमेव साधयति न तु प्रतियोगिताध्यं निराकरोति । तदनिराकरणे च सर्वोऽपि हेतुर्विरुद्धाव्यभिचार्येव स्यात् । ततश्च साध्यसिद्धरुपायान्तरं दर्यतामित्याह । ततश्चेति । अनेनेति विरुद्धाव्यभिचारलक्षणभणनेन एतदुक्तं भवति । येनानित्यत्वादिकं साध्यं साधयितुमभिलषितं तेन प्रथमतस्तद्विपक्षभूतं साध्यं युक्तिभिर्निराकरणीयम् । येन च नित्यत्वादिकं साधयितुमभिप्रेतं तेनेतरदिति पश्चात्स्वभावासिद्धयेऽनुमानप्रयोग इति । तत्र क्षणिकत्वे साध्ये नित्यवस्तुनिषेधकं युक्तिमात्रम् । यथा नित्यो यर्थः किं क्रमेण क्रियां कुरुते यौगपद्येन वा । न तावत्क्रमेण । यतो याऽसौ तस्योत्तरक्रियायां प्रवृत्तिः सा पूर्वक्रियाकरणस्वभावोपमर्दद्वारेणाऽन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् । पूर्व क्रियाकरणस्वभावप्रच्यवे चाऽतादवस्थ्यमेवानित्यतेति । अथ सहकारिसव्यपेक्ष: सन् नित्यं क्रमेण कार्य करोति न केवल इति चेन्नैवम् । सहकारिकारणापेक्षा नित्यस्याकिंचित्करैव । एकस्वरूपत्वात्तस्य । नापि यौग. पद्येनेति पक्षः । अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते । करोतु वा । तथाप्याद्यक्षण एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षणेप्वकुर्वाणस्यानित्यता बलादाढौकत इति । अनित्यवस्तुनिषेधकं च युक्तिमात्रं यथा ।.................................... अत्रोच्यते । पुरुषविशेषमपेक्ष्यायं हेत्वाभासोऽन्यतरासिद्धवत् । तथाहि यदा वादी विपक्षबाधकद्वारेण बहेतोः साध्याविनाभाविनः समर्थमितरस्यासिद्धतोद्भावनं च कर्तुं न शक्नोति तदा विरुद्धाव्यभिचारी हेत्वाभासः । यच्चोक्तं प्रथमस्य दुष्टत्वे द्वितीयप्रयोगोऽदुष्टत्वे वेति तन्न । विप्रतिपत्तिवद्विशेषानुपलम्भमात्रेऽपि दर्शनात् । तथाहि सामान्योपलम्भादिसद्भावे सति विशेषानुपलम्भाद्यथा सम्यक्त्वानिश्चये विप्रतिपत्तेरुत्थानं तथा व्यभिचारिणोऽपि दुष्टत्वादुष्टत्वचिन्तां विनाप्युत्यानं भवतीति । उदाहरणाधिकार उदाहरणप्रस्तावः । पर्याय इति । परि समन्ताद् अयनं गमनम् । उत्तरोत्तरावस्थान्तरोत्पत्त्येति पर्यायो गुण उच्यते । असाधारणमित्यनन्यसदृशम् । धर्मस्य नित्यत्वादिकस्यात्मनोयं लक्षणरूपमात्मलक्षणम् । कृतकत्वादिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वादिति कार्यहेतुः । यद्यपि प्रयत्नानन्तरीयकत्वं स्वभावहेतुत्वेन कार्यहेतुत्वेन च प्रसिद्धं तथापीह कार्यहेतुत्वेन विज्ञेयम् । कथमेवमिति चेदुच्यते । प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं शब्दनन्म तज्ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । तत्र जन्म प्रयत्नानन्तरं जायमानस्य शब्दस्य