________________
न्या. प्र. वृ०२८] न्यायप्रवेशवृत्तिपत्रिका
(६१) स्तभावः । ताल्वादिव्यापारजनितशब्दानन्तरं यच्छब्दविषयं ज्ञानं तत् ज्ञेयस्य कार्यम् । तदिह विरुद्धहेत्वाभासलक्षणे प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुरयम् । अथायं स्वभावहेतुत्वेनापि किमिति न व्याख्यायते ? । सत्यं व्याख्यायत एव। केवलं कृतकत्वादिति स्वभावहेतुरभिहित एव सूत्रे । तेन कार्यहेतुतया व्याख्यायते । अन्थान्तरेऽपीत्यमेव व्याख्यानाच्च । अतः प्रयत्नानन्तरीयकज्ञानजनकत्वादिति हेत्वों द्रष्टव्यः । तेनैवेति । अनित्यत्वेनैवाऽस्याविनाभावित्वात् । तद्विनाऽयं न भवतीत्यर्थः । तदिह विपर्ययेऽनित्ये सम्यग्घेतुरेव विरुद्धोऽविपर्यये तु नित्ये प्रयोगाद्धेत्वाभास उच्यत इति विज्ञेयम् । तदुक्तम् । ___" कृतकत्वं त्वनित्यत्वे सपक्षे वृत्तिमद्धटे । विनिवृत्तं विपक्षाख्ये सम्यग्धेतुरुदाहृतः ॥" इति । आहेत्यादि । नित्यशब्दवादिनो मीमांसकस्य चाक्षुषत्ववत्कृतकत्वं शब्दधर्मतया न सिद्धं किंतु तात्वादिभिः शब्दाभिव्यक्तिरेव तस्य सिद्धत्यपक्षधर्मताऽस्त्येव । अपक्षधर्मश्च हेतरसिद्ध एव भवतीति प्रेर्यार्थः । अवश्यं नियमादेव पक्षधर्मस्यैव सतो हेतोविरुद्धता । तदभावे सिद्धत्वमिति न वाच्यम् । कुत इत्याह । अन्यथापीति। अपक्षधर्मोऽपि सन्विरुद्ध उच्यते आचार्येण । प्रवृत्तिरपि कुत इत्याह । अधिकृतेति । अधिकृतश्चासौ प्रयोगश्च स चासौ ज्ञापकं च तस्मात् । अथापक्षधर्मो हेतुरसिद्ध एवेत्यपक्षधर्मत्वान्नायमसिद्धाद्भिद्यत इत्याह । न चायमिति । अपि त्वमिद्धादयं पृथक्रियते । कुत इत्याह । विपर्ययेति । अ............... तस्य विपरीतं संहतत्वं तस्य साधनः । परार्थी इति । परस्मै इमे परार्थाः । परस्योपकारका इत्यर्थः । यद्वा पर आत्मलक्षणोऽर्थः प्रयोजनमुपकर्तव्यतया येषां ते परार्थाः । चक्षरादिर्येषां श्रोत्रादीनां ते चक्षुरादयः। कः पुनरित्यादि। आत्माऽम्तीति ब्रुवाणः सख्यिः कुत एतदिति पृष्टः स बौद्धेनात्मनः सिद्धये प्रमाणमाहेत्यर्थः । अथ कोऽत्र धर्मी कश्च साध्यो धर्म इत्याह । इह चेति । महानिति बुद्धेराख्या । अथात्र कीदृशो धर्मविशेषः साधयितुमिष्ट इत्याह । अस्य चेति । अस्येति सांख्यस्य वादिनः । असंहते विषये परार्थत्वमसंहतपरार्थत्वमिति समासः । अन्यथेति । यद्यसंहतपारायं विशेष्यतया नेप्यते इत्यन्यथाशब्दार्थः । सिद्धम्य संहतपदार्थस्य साध्यता तस्या आपत्तिम्तया । यतो विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्यते । संहतपरार्थत्वे च चक्षुरादीनां साध्ये विवादोऽपि नास्ति तदिहासंहतपरार्थाश्चक्षुरादय इति प्रतिज्ञार्थो द्रष्टव्योऽसंहतपरयात्मेति । तदत्र प्रमाणे यद्यपि परार्थाश्चक्षुरादय इत्यात्मार्थता वच. नेन नोक्ता तथाऽपहिानुक्तापीच्छाविषयीकृता प्रस्तावाय अत आत्मार्थता साध्या। तदधिकरणत्वाद्विवादस्य । एतेनेच्छयापि व्याप्तः पक्ष इति यत्प्रागुक्तं तन्निदर्शितम् । यद्येवं तर्हि किमर्थ सामान्येन। परार्था इत्युक्तं यावता साक्षादात्मार्थाश्चक्षुरादय इत्यपि परेण कम्मानोक्तमिति चेदुच्यते । शयनासनादिषु हि पुरुषोपभोगाद्भेष्वात्मार्थत्वेनान्वयो न प्रसिद्धः संहतार्थस्य पारार्थ्यमात्रेण तु सिद्धस्ततः परार्या इत्युक्तम् । अयं भावार्थः । साध्ययुक्तो हेतुर्दृष्टान्तदर्शनीयोऽसंहतपारार्थ्यम् । तच्च तेषु न प्रसिद्धम् ।