________________
पार्श्वदेवाता
[न्या.प्र.१० २८ संहतपरं प्रत्येवोपकारजनकत्वेन तेषां शयनासनादीनां दर्शनात् । संघातत्वादिति । सच्चिद्रूपत्वादित्यर्थः । अथ चक्षुरादीनां संहतत्वं कथमिति चेदुच्यते । चक्षुरादयो हि परमाणुनिचयस्वभावास्ततो रूपा उच्यन्ते । शयनं चासनं च ते आदिर्येषां पीठिकादीनां तेषामङ्गान्युत्पलेशादीनि तानीव तद्वत् । न्यायबिन्दौ तु शयनासनायेवाझं पुरुषोपभोगाङ्गत्वात्तदिव तद्वदिति न्याख्यानं कृतं तदप्यदुष्टमेवेति । साध्यान्वितहेतोर्व्याप्तिप्रदर्शनविषयोऽयं दृष्टान्तः । यथा हि शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति परार्था उच्यन्ते एवं चक्षुरादयोऽपि धर्मिणः संघातत्वादसंहतपरार्था इत्यर्थः । परार्थभावमिति परोपकारकत्वमित्यर्थः । सावयत्वमपीति । सावयवात्मनो यो ह्यस्योपकारकारकत्वमपि चक्षुरादीनां साधयति । कयंभूतं संहतत्वम् ! । साध्यधर्मविशेषविपरीतम् । साध्यश्वासौ धर्मश्च पारामुलक्षणस्तस्य विशेषोऽसंहतत्वं तस्य विपरीतं संहतत्वम् । तत्साधयति सूत्रपदमिदम् । न चेदं वाच्यं धर्मिस्वरूपं तस्य विपरीतमवान्तरसामान्यरूपं तस्य साधनः । तत्रेति तेषु पदार्थेषु मध्ये । तत्र पृथिवीद्रव्यविषयस्त्रिविधः । मृत्पाषाणस्थावरलक्षणः । तत्र भप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवज्रादयः । स्थावराः तृण्वोषधिवृक्षादयः । अपद्रव्यविषयो हिमकरसरित्समुद्रादिः । तेनोद्रव्यविषयश्चतुर्धा। भौमदिव्योदर्याकरजभेदात् । तत्र भौमं तेजः काष्ठे. न्धनप्रभवमर्वज्वलनस्वभावं पचनस्वेदनादिसमर्थम् । दिव्यं सौर विद्युदादि च । भुक्तस्याहारस्य रसादिपरिणामजनकमुदयम् । आकरजे सुवर्णादि । वायुद्रव्यं च तिर्यगमनस्वभावकं । मेघादिप्रेरणधारणादिसमर्थ त्वगिन्द्रियग्राह्यमिति । आकाशं नभम्तच्चैकं महत्परिमाणम् । अनाश्रितं नित्यम् । सर्वप्राणिनां शब्दोपलब्धिहेतुरिति । कालः क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासवयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुरिति । दिक्पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येप्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण अधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति । तत्र मेरुं प्रदक्षिणमावर्तयतः सवितुर्ये संयोगा लोकपालपरिगृहीतदिक्प्रदेशानां ते देवतापरिग्रहवशात्पुनरप्यैन्द्रत्वादिभेदेन दशदिक्संज्ञा लभन्ते । यथा ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायवी ऐशानी ब्राह्मी नागी चेति । आत्मा तु जीवः । स च सूक्ष्मोऽप्रत्यक्षो नित्यो विभुर्बुद्धयादिविशेषगुणाश्रयः । अनुस्मृतिप्रत्यभिज्ञानादिलिङ्गगम्य इति । मनस्तु करणान्तरम् । तच्चास्पर्शवत्वाद्न्यानारम्मकम् । क्रियावत्त्वान्मर्तम् । प्रयत्नादृष्टपरिग्रहकशादाशुसंचारि । आत्मेन्द्रियार्थसन्निकर्षे सति युगपज्ज्ञानानुत्पत्तिलिङ्गमणुपरिमाणं बाह्यन्द्रियैरगृहीतम्य सुखादेर्लाहकामिति । गुणा इत्यादि । तत्र चक्षुर्लाह्यं रूपं शुक्लायनेकप्रकारम् । रसनाग्राह्यो रसस्तिक्तादिः षडिधः । घाणग्राह्यो गन्धः सुरभिरसुरभिश्च । त्वगिन्द्रियग्राह्यः स्पर्शः शीतोष्णानुष्णाशीतभेदात् त्रिविधः । एकादिव्यवहारहेतुः संख्या । तत्रैकद्रव्यविषया एकत्वरूपा ।